________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७९ )
विविधनयसमूहस्थानसंगत्यपास्तापरमतरणहेतुश्छायया भासमानैः ॥ ३ ॥ कलितमदनलीलाऽधिष्ठिता चारु कान्तात्,
सदसि रुचितमाराद् धाम हन्ताऽपकारम् । हरतु पुरुषदत्ता तन्वती शर्म पुंसां, सदसिरुचितमाराद्धाऽमहं तापकारम् ॥ ४ ॥
१८ श्रीअरजिनस्तुतयः ।
"हरन्तं संस्तवीम्यहं त्वामरजिन ! सततं भवोद्भवामानमदसुरसार्थवाचंयम ! दम्भरताऽऽधिपापदम् ।
विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हतामानमदसुरसार्थवाचं यमदं भरताधिपाऽऽपदम् ॥ १ ॥ - * द्विपदी
भीमभवं हरन्तमपगतमदको पाटोपमर्हतां, स्मरत रणाधिकारमुदितापदमुद्यमविरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थितरत्नरुचाऽरुणक्रम,
स्मरतरणाधिकारमुदिता पदमुद्यमविरतमुत्करम् ॥२॥
भीमभवदधेर्भुवनमेकतो विधुशुभ्रमञ्जसाsभवदवतो यशोऽभितरणेन नमाऽदितं नयमितं हि तम् । जिनपसमयमनन्तभङ्गं जन ! दर्शनशुद्धचेतसा, भवदवतोय ! शोभित! रणेन न मादितं न यमितं हितम् ॥ ३ ॥
+ 'संस्तवीम्यहं त्वा हरन्तमरजिन ! ' इत्यपि पाठः । गौ द्वितीयषष्ठौ जो लीव द्वीपदी ।
*
For Private And Personal Use Only