Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संबोधनं हे वीरप्रभो !। ' वरतमसङ्गमोदारतारोदिताऽनङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः।' अतिशयेन वरा इति वरतमा-प्रधानतमा सङ्गमस्य–सङ्गमनाम्नो वैमानिकसुरस्य सम्बन्धिनी उदारा च तारा च, अथवा वरतमः सङ्गमः-समागमो यस्याः सा वरतमसङ्गमा, उदारतारा-अदीनलोचनकनीनिका, ‘उदिताऽनङ्गा,' उदितः अनङ्गो यस्याः सा, उद्गतकामा या नार्यावली-नारीणामावली श्रेणिस्तस्या लापेन-जल्पितेन, देहेन, ईक्षितेन च अमोहितानि अक्षाणि-इन्द्रियाणि यस्य सः। अथवा हे वरतम ! श्रेष्ठतम ! । इति पृथक्पदम् । 'क्षमाऽलङ्कृतौ ' क्षमाया भुवः अलङ्कृतौ अलङ्कारभूते । “ क्षितिः क्षोणी क्षमाऽनन्तो” इति हैमः। 'लीलापदे ' लीलानां-विलासानां पदं स्थानं तस्मिन् । ' धराधीशसिद्धार्थधाम्नि ' धराधीश:-क्षितिपतियः सिद्धार्थाऽभिधानस्तस्य धाम्निगृहे । — जाताऽवतारः - जातोऽवतारो यस्य स जाताऽवतारोऽवतीर्णः । ‘क्षिताम: ' क्षितः क्षयं नीतः। आमो रोगो येन सः क्षिताम:-क्षपितरोगः। · अक्षोभवान्' नास्ति क्षोभोऽस्येत्यक्षोभवान्भयरहितः । ' भवान् ' त्वम् । 'मम' मे । 'निर्वाणशाणि' निर्वाणस्य-मोक्षस्य शाणि-सुखानि । “ निर्वाणं ब्रह्म निर्वृतिः " इति हैमः । 'अनवरतं' निरन्तरम् । ‘वितरतु' प्रयच्छतु ॥ ९३ ।। अस्मिन्पद्येऽर्णवदण्डकवृत्तमस्ति ॥ तल्लक्षणश्चयदिह नयुगलं ततः सप्तरेफास्तदाचण्डवृष्टिप्रपातो भवेद् दण्डकः । प्रतिचरणविवृद्वरेफाःस्युरऽर्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः।। इति वृत्तरत्नाकरे । શ્રી વીરપ્રભુને વિનંતિ કા –નમન કરતા દેવના કેશ ઉપરથી પડેલી, તેમજ સુવાસિત અને વિકસિત એવી મંદારની અથૉત્ કલ્પવૃક્ષના કુસુમની માળાઓના પરાગવડે રંગાયેલા છે ચરણે જેના એવા For Private And Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301