Book Title: Jina Stuti Chaturvinshtika
Author(s): Shobhanmuni, Ajitsagarsuri
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५३ ) मालाः सजस्तासां रजसा-परागेण रञ्जितावंही चरणौ यस्य स तदामन्त्रणे रञ्जितांऽहे ! पाटलितचरण ! 'धरित्रीकृताऽवन!' धरित्र्याःपृथिव्याः कथञ्चिदभेदाद्धरित्रीगतलोकस्य कृतमवनं येन स तदामन्त्रणम् , कृताऽवन ! विहितरक्ष!। “धात्री धरित्री धरणी” इति हैमः। "धरित्री धरिणी विश्वं, लोकः क्षेमेषु शाश्वतं” इतिव्याडिः। 'असङ्गमोद ! सङ्गश्च मोदश्च ताभ्यां रहित ! अथवा सङ्गाद्यो मोदः स नास्ति यस्य स तदामन्त्रणम् । 'अरत !' असक्त ! । 'अरोदित !' रोदितरहित !। 'अनङ्गन,' अङ्गनावर्जित ! । 'आर्याव!' आर्यान्सज्जनानवति यस्तस्यामन्त्रणम् । ‘हित' हितकारिन् ! । 'हे वीरे !' वर्धमान ! विशेषेण ईरयति-नाशयति शत्रून् कामादीनिति वीरः, "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥” इति धर्मसंग्रहे। विपूर्वक 'ईर' गतिप्रेरणयोरित्यस्मात्पचाद्यचि सिद्धम् । विशिष्टा चासौ ईर्लक्ष्मीश्च तपोरूपा, तीर्थकृन्नामकर्मोदयसमुद्भूता वा वीस्तया राजत इति वीरो वा । यद्वा ईरणमीर: ' ईर् गतौ' भावे घञ् । 'ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्था 'श्चेति वचनात् विशिष्टः ईरो-ज्ञानमस्य स वीरः, यद्बा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति “ इराऽम्भोवाक्तुराभूमिषुः” इति हैमः वा कर्मशत्रुजेतृत्वाद्दर्शितपराक्रमो वा वीरः । यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वीरस्तस्य १ मूलामिधातः खलु वर्धमानो, देवार्यनाम्नाऽभिदधे प्रजामिः ।। वीरः पुनर्वीरतया प्रसिद्धः, स सन्मतितिसुतोऽप्यभाषि ॥ (२) प्राचीनवर्णाश्रमवम॑ना स्वां, गतिं तनोति त्रिशलाङ्गजन्मा ॥ चतुष्वसौ विश्रममाश्रमेषु, कुर्वन् क्रमादन्तत एति पूर्णम् ॥ (३) इति वीरविभूतिः।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301