________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५३ ) मालाः सजस्तासां रजसा-परागेण रञ्जितावंही चरणौ यस्य स तदामन्त्रणे रञ्जितांऽहे ! पाटलितचरण ! 'धरित्रीकृताऽवन!' धरित्र्याःपृथिव्याः कथञ्चिदभेदाद्धरित्रीगतलोकस्य कृतमवनं येन स तदामन्त्रणम् , कृताऽवन ! विहितरक्ष!। “धात्री धरित्री धरणी” इति हैमः। "धरित्री धरिणी विश्वं, लोकः क्षेमेषु शाश्वतं” इतिव्याडिः। 'असङ्गमोद ! सङ्गश्च मोदश्च ताभ्यां रहित ! अथवा सङ्गाद्यो मोदः स नास्ति यस्य स तदामन्त्रणम् । 'अरत !' असक्त ! । 'अरोदित !' रोदितरहित !। 'अनङ्गन,' अङ्गनावर्जित ! । 'आर्याव!' आर्यान्सज्जनानवति यस्तस्यामन्त्रणम् । ‘हित' हितकारिन् ! । 'हे वीरे !' वर्धमान ! विशेषेण ईरयति-नाशयति शत्रून् कामादीनिति वीरः, "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥” इति धर्मसंग्रहे। विपूर्वक 'ईर' गतिप्रेरणयोरित्यस्मात्पचाद्यचि सिद्धम् । विशिष्टा चासौ ईर्लक्ष्मीश्च तपोरूपा, तीर्थकृन्नामकर्मोदयसमुद्भूता वा वीस्तया राजत इति वीरो वा । यद्वा ईरणमीर: ' ईर् गतौ' भावे घञ् । 'ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्था 'श्चेति वचनात् विशिष्टः ईरो-ज्ञानमस्य स वीरः, यद्बा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति “ इराऽम्भोवाक्तुराभूमिषुः” इति हैमः वा कर्मशत्रुजेतृत्वाद्दर्शितपराक्रमो वा वीरः । यद्वा निरुक्तिवशात् कर्मततिविदारणाद् वीरस्तस्य १ मूलामिधातः खलु वर्धमानो,
देवार्यनाम्नाऽभिदधे प्रजामिः ।। वीरः पुनर्वीरतया प्रसिद्धः,
स सन्मतितिसुतोऽप्यभाषि ॥ (२) प्राचीनवर्णाश्रमवम॑ना स्वां,
गतिं तनोति त्रिशलाङ्गजन्मा ॥ चतुष्वसौ विश्रममाश्रमेषु,
कुर्वन् क्रमादन्तत एति पूर्णम् ॥ (३) इति वीरविभूतिः।।
For Private And Personal Use Only