Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
[१४०]
देवाधिदेव-पूजाविधौ ततश्च भवति लघोरपि' [अर्हद० पृ. ९२] इति वृत्तेन कुकुम-चन्दन-स्नानम् । इति पंचधारकम् ।।
तत: 'कुंकुमहृद्यां द्यामिव ' [अईद० पृ. ९३] इति वृत्तेन चन्दनविलेपनम् ।
ततः · उपनयतु भवान्तं' [अहंद० पृ. ९४] इति वृत्तेन कस्तूरिकामयपढें कुर्यात् ।
ततो ' भाति भवतो ललाटे' [अर्हद० पृ. ९५] इति वृत्तेन गोरोचनया सर्षपैश्च देवस्य तिलकं कुर्यात् ।
ततो ' मेरौ नन्दन-पारिजात-' [ ] इत्यादिवृत्तसप्तकेन क्रमात् सप्त कुसुमांजलीन् क्षिपेत् । ___ ततः पूजाकारोऽधिवासिते कलशचतुष्टये स्नपनकारैर्गृहीते सत्येकं प्रतिमायाः पुरतः स्थित्वा ‘कपूरस्फुटभिन्न-' [ ] इत्यादि वृत्तद्वयेन कुसुमांजलिद्वय प्रक्षिपेत् । पश्चात् कलशचतुष्टयेन स्नपनकाराः स्नानं कुर्युः ।
तदनन्तरमाहारस्थालं भगवतः पुरो दध्यात् ।
ततः परिधापनिकां लवण-जलारात्रिकावतारणं मंगलप्रदीपं च प्रागवत् कुर्यात् ।
इति पंचामृतस्नानम् ।
卐
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214