Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
[ १४२] देवाधिदेव-पूजाविधौ ___एवं 'शकाद्या लोकपाल- [ __] इति वृत्तेन गृ(प्र)ह-पट्टिका-दैवतान् विसृज्यांचलावतारणं कुर्यात् । केचित् प्रथममेतान् विसृज्य, पश्चाद् दिक्पालान् विसृजन्ति । " xxx
ततो द्वौ धौतपोतिको श्रावकेन्द्रौ कलशोदकेन भंगारद्वयं भृत्वोभयतस्तिष्ठेताम् । एकः स्थालके कृत्वा पुष्प-चन्दन-वासान गृहीयाद्, अपरश्च धूपायनं पाणिप्रणयीकुर्यात् । ततस्त एव श्रावकाः सप्त नमस्कारान् पठित्वा सप्त धाराः कलशे निक्षिप्य 'नमोऽहत्-सिद्धा-' इत्युचार्य, आदौ 'अजियं जियसव्वभयं' इति स्तवेनान्यैः स्वयं वा पठितेन शान्ति घोषयेयुः। सर्वपद्यानां प्रान्ते एकैकां धारां कलशे शृंगारग्राहिणौ समकालं दद्याताम् । एकश्च पुष्पादीन् क्षिपेद्, अपरश्च धूप दद्यात् ।
स्तव-समाप्तौ पुन गारौ भृत्वा ' उल्लासिक्कम-' स्तोत्रेण शान्ति घोषयेयुः ।
तथैव पुनर्भयहर-स्तवेन, ततः 'तं जयउ जये तित्थं' तदनु 'मयरहियं' इति स्तवेन, तदनन्तरं 'सिग्घमवहरउ विग्धं' इति स्तवेन शान्ति घोषयेयुः ।।
सर्वत्र पद्य-समाप्तौ कलशे धारादान-पुप्पादि-क्षेपाः प्राग्वत् , नवरं स्तवानामन्त्यवृत्तं त्रिभणेयुः । ततश्च सप्तकृत्व उपसर्गहर-स्तोत्रं भणित्वा धारादान-पुष्पादिक्षेपविधिना शान्ति घोषयेयुः । शान्तौ च घोष्यमाणायां साधु-साध्वी-श्रावक-श्राविका उपयुक्तास्तुमुलं निवार्य शान्ति शृणुयुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214