Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 199
________________ - - - [ १३८] देवाधिदेव-पूजाविधौ 'नमोऽर्हत्-सिद्धा-' इत्यधीत्य — जम्ममज्जणि जिणह वीरम्स' [ ] इत्यादि कलशवृत्तेषु जन्माभिषेककलश-वृत्तान्तरेषु वाऽन्यैः पठितेषु, तदभावे स्वयं वा भणितेषु कुम्भपिधानान्यपनीय, पंचशब्दे वाद्यमाने, श्राविकासु जिन-जन्माभिषेक-गीतानि गायन्तीषु उभयतोऽप्यखण्डधारं स्नपन कुर्वन्ति । द्रष्टारश्च जिनमज्जन-प्रतिबद्ध-हृद्यपद्यानि पठन्ति, मुहुर्मुहुमूर्धान नमयन्ति ।* * ततः शुद्धोदकेन प्रक्षालं कृत्वा धूपितवस्त्रखण्डेन प्रतिमां कृषित्वा चन्दनेन समभ्यर्च्य समालभ्य वा पुष्पपूजां विधाय 'मीन-कुरंग-मदा- [अर्हद० पृ. ७१] इति वृत्तेन धूपमुद्ग्राहयेत् । तत आहारस्थालं दद्यात् । ततः परिधापनिकां प्रतिलिख्य, करयोरुपरि निवेश्यैकस्मिन् धूपमुग्राहयति सति पुष्प-चन्दन-वासैरधिवास्य 'नमोऽहत्-सिद्धाचार्यो-' इत्यादि भणित्बा 'शको यथा जिनपतेः' [ ] इति वृत्तद्वयमधीत्य सोत्सवं देवस्योपरिष्टादुभयतो लम्बमानां निवेशयेत् । ततः कुसुमांजलि-वर्ज लवण-जलारात्रिकावतारणं मङ्गलदीपान् प्राग्वत् कुर्यात् , नवरं लवणाद्यवतारणेषु तथैव प्रतिवृत्त वादित्र-मन्त्रध्वनि कुर्यात् । ततो यथासंभव गुरु-देशनां श्रुत्वा स्वगृहमेत्य स्नपनकारादि-साधर्मिकान् भोजयेद् । इत्योघतः स्नपनविधिः ॥" तत्रैव छत्रभ्रमणविधौ-'प्रोद्भूतभक्ति-' [अर्हद० पृ. ४९] इत्यादिवृत्तैः कुसुमांजलिं क्षिपेत् ततस्तस्याः प्रतिमायाः ‘हिययाई पडतं' [जिनस्नात्रविधि पृ. ११ ] इति गाथया स्नानं कुर्यात् । ] * * ___“अथ पंचामृत-स्नात्रविधिः-तञ्च छत्रभ्रंमणकृते वा 'जम्ममज्जण' इति वृत्तपंचकेन प्रथम गन्धोदक-स्नान-पर्यन्तं विधि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214