Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 656
________________ त्रयोदशः सर्गः किमनर्गलसर्पिणे स्थितिं क्षमता दातुमहो बलाय मे । त्रपयेव रजस्यथोद्धते मुखमेवं नभसा निगोपितम् ||३०|| किमनर्गलेत्यादि । अनर्गलस पिणेऽव्याहतं प्रसारं कुर्वतेऽमुष्य बलाय स्थित बातुं कि मे क्षमताऽस्ति ? अहो इत्याश्चर्ये । अथ एतावद्विशालायास्य बलाय स्थिति वातुं मे सामथ्यं नेवास्तीति त्रपया ह्रियेव तवोद्धते समुत्थिते रजसि नभसा मुखं निगोपितमासीत् । उत्प्रेक्षालङ्कारः ॥ ३० ॥ ३०-३२ ] अवरोधनभाजि राजितो नरयानानि चलन्ति विस्तृते । अतिमात्रमनीकनीरघौ निदधुः सत्तरणिश्रियं तदा ||३१|| ६३३ अवरोधनेत्यादि । अनीकं सैन्यमेव नीरधिः समुद्रस्तस्मिन् विस्तृतेऽतिविस्तारयुक्ते राजितः पङ्क्तिबद्धतया चलन्ति यान्यवरोधनभाञ्जि, अन्तःपुरसम्वाहकानि नरयानानि तानि तदा समीचीनानां तरणीनां नौकानां श्रियं शोभामतिमात्र यथा स्यात्तथा निदधुः स्वीचक्रुः । रूपकम् ॥ ३१ ॥ प्रसृते खलु सैन्यसागरे मकराकारघरा हि सिन्धुराः । समुदञ्चितहस्तबन्धुराः क्रमशश्चेलुरुदीर्णवादरे || ३२ ॥ हस्ता प्रसृत इति । प्रसृते प्रसारं गते सैन्यमेव सागरस्तस्मिन् समुदञ्चिता उत्थापिता ये धुरा मनोहरा ये सिन्धुराः करिणस्ते हि किलोदीणं वारां जलानां बलं यत्र तस्मिन् मकराकारधराः सन्तः क्रमशश्चेलुः । रूपकालङ्कारः ॥ ३२ ॥ अन्वय : अहो अनर्गलसर्पिणे बलाय स्थिति दातु किं मे क्षमता ? एवं त्रपयेव अथ उद्धते रजसि नभसा मुखं निगोपितम् । अर्थ : इस राजा जयकुमारका सेना दल जो बहुत तेजी के साथ फैल रहा है इसको स्थान देनेके लिए मेरेमें कहाँ सामर्थ्य है ? ऐसा सोचकर स्वयं आकाशने भी उठती हुई धूलिमें अपने आपके मुखको छिपा लिया ।। ३० । अन्वय : अतिमात्रं विस्तृते अनीकनीरधौ अवरोधनभाञ्जि राजितः चलन्ति नरयानानि तदा सत्तरणिश्रियं निदधुः । अर्थ : जिनमें अन्तःपुरकी स्त्रियाँ बैठी हुई हैं और जो पंक्ति बद्धरूपसे चल रहे हैं ऐसे नर-यान (पालकी - मियाने) उस विस्तृत सेनारूपी समुद्रमें उत्तम नौकाओंकी शोभाको धारण कर रहे थे ।। ३१ ।। अन्वय : उदीर्णवादरे खलु प्रसृते सैन्यसागरे समुदञ्चित - हस्तबन्धुराः सिन्धुराः हि मकराकारधराः क्रमशश्चेलुः । ६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690