Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 684
________________ १०५-१०६ ] त्रयोदशः सर्गः ६६१ नादातुमिति । अस्मिन् स्रवन्त्या नद्या अवतारे तीर्थेऽन्यद्विपस्य परहस्तिनो दानेन मदेन विग्धं मलिनितमम्भो जलं नादातुं न ग्रहीतुं न च त्यक्तुमपीच्छता सरुषा रोषपूर्णेन, अतो धूतो न गणितो अंकुशो येन तेन तादृशा गजेन निषादी हस्तिपकोऽलमतिशयेन खिन्नोऽभूत् । स्वभावोक्तिरलङ्कारः ॥ १०४॥ यावन्निपीतं जलमापगायास्ततोऽधिकं तत्र समर्पितञ्च । मतङ्गजेन्द्रैर्निजदानवारि न वंशिनः प्रत्युपकारशून्याः || १०५ || यावदिति । मतङ्गजेन्द्र रापगाया नद्या यावज्जलं निपीतं तत्र ततोऽप्यधिकं निजदानवारि स्वकीयं मदजलं तैः समर्पितं च । यतः किल वंशिनः पुष्टपृष्ठास्थिशालिनः कुलीना वा प्रत्युपकारशून्या न भवन्ति । अर्थान्तरन्यासः ।। १०५ ।। मदोद्धतैः सन्दलिता पथीभैः शान्तान्तरङ्गैरिव सा सुषीमैः । अनागसे सम्प्रति सामजातैरधारि धूलिः शिरसा तथा तैः ।। १०६ ।। मदोद्धतैरिति । मदेनोद्धतैरुन्मत्ते रिभैर्हस्तिभिः कीदृशैः सुषोमैः सुन्दरैः, पथि मार्गे सम्बलिता या धूलिः सैव सम्प्रति तेरेव तथाऽनागसेऽपराधपरिहारायैव किल शिरसा मस्तकेनाधार समुद्धृतेत्यर्थः । उत्प्र ेक्षालङ्कारः ।। १०६ ।। अन्वय : स्रवन्त्याः अवतारे अन्यद्विपदानदिग्धं अम्भः न आदातुम् न अपि त्यक्तुम् इच्छता सरुषा धूताङ्कुशेन गजेन निषादी अलं खिन्नः अभूत् । अर्थ : नदीमें उतरनेके समय कोई एक हाथी दूसरे किसी हाथीके मदसे गंदले हुए जलको देखकर न तो वह नदीमें प्रविष्ट ही हुआ और न वापिस ही लौटा। अंकुशकी भी उसने कुछ परवाह नहीं की, इस प्रकार उसने महावतको भारी खेद खिन्न किया || १०४ ॥ अन्वय : मतङ्गजेन्द्रः आपगायाः यावत् जलं निपीतं तत्र ततः अधिकं निजदानवारि समर्पितं । च वंशिनः प्रत्युपकारशून्याः न ( भवन्ति ) । अर्थ : अस्तु, हाथियोंने नदीका जितना जल पिया, उससे भी कहीं अधिक जल अपने मदके जलके बहानेसे उसे वापिस दे दिया। सो ठीक ही है- उत्तम वंश वाले लोग प्रत्युपकारको भूला नहीं करते ।। १०५ ॥ · अन्वय : मदोद्धतैः इभैः सामजातैः पथि घूलिः सन्दलिता सम्प्रति सा शान्तान्तरङ्गः इत्र सुषोमैः तथा अनागसे शिरसा तैः अधारि । अर्थ : मदोद्धत जिन हाथियोंने मार्ग में पृथ्वीको दल-मल दिया था उन्होंने इस समय अन्तरंगमें शान्ति प्राप्त करके सरलतापर आ जानेसे अपने आपके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690