Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 668
________________ १०४-१०६ ] योदशः सर्गः ६४५ मकरन्दरजःपिशङ्किताः स्मरधूमेन्द्रकणा उदिङ्गिताः । स्थलपमभराः प्रवासिनां स्म मनः सम्प्रति तापयन्ति ते ॥६२।। मकरन्देति । मकरन्दरजसा पुष्पपरागेण पिशङ्गिताः पीततामाप्तास्ते स्थलपनानां भराः समूहाः, स्मरः काम एव धूमेन्द्रोऽग्निस्तस्य कणा अंशा उदिङ्गिता ज्वलन्तस्ते प्रति प्रवासिना प्रोषिताना मनस्तापयन्ति स्म । तेषामुद्दीपनविभावत्वाविति भावः ॥६२॥ पुलिने चलनेन केवलं वलितग्रीवमुपस्थितो बकः । मनसि व्रजतां मनस्विनामतनोच्छ्वेतसरोजसम्भ्रमम् ।।६३॥ पुलिन इति । पुलिने नदीतीरे केवलमेकेन चलनेनाघ्रिणा वलिता वक्रोकृता ग्रीवा गलकन्दली येन स यथा स्यात्तथोपस्थितः सन्निविष्टो बकः कङ्कस्तत्र व्रजतां मनस्विना विकिनामपि मनसि श्वेतसरोजस्य पुण्डरीकस्य सम्भ्रममतनोत् । भ्रान्तिमानलङ्कारः ॥ ६३ ॥ शिविराणि बभुश्च दूरतः कलहंसोपमितानि पूरतः । परितो रचितानि वाससा विशदेनात्मगुणेन भूयसा ॥६४॥ शिविराणीति । तत्र परित इतस्ततो वाससा वस्त्रेण रचितानि शिविराणि, उपसदनानि पूरत: प्रवाहरूपेण पक्तिबद्धतया स्थितानि भूयसा विशदेन शौक्ल्यजरूपात्मगुणेन कलहंसोपमितानि दूरतो बभुरशोभन्त । उपमालङ्कारः ॥ ६४ ॥ कामदेवके यशका निरूपण करनेवाली उसके तम्बू (डेरा) की स्थिति सरीखी प्रतीत होती है ।। ६१ ॥ अन्वय : सम्प्रति मकरन्दरजःपिशङ्गिताः स्थलपद्मगणाः ते स्मरधूमेन्द्रकणा उदिङ्गिताः मनस्विनां मनः तापयन्ति स्म । अर्थ : स्थल (भूमि) पर उगनेवाले स्थल-कमलोंके समूह जो मकरन्दकी रजसे पीले हो रहे थे वे कामाग्निके कणोंके समान विचारशील लोगोंके मनको सन्तापित कर रहे थे ।। ६२॥ ___ अन्वय : पुलिने केवलं चलनेन वलितग्रोवम् उपस्थितः बकः बजतां मनस्विनाम् मनसि श्वेतसरोजसम्भ्रमं अतनोत् । __ अर्थ : बगुला नदीके किनारेपर केवल एक पैरसे खड़ा हुआ है और इसने अपनी ग्रीवाको टेढ़ी कर रखी है वह यहाँपर विचारशील लोगोंके मनमें श्वेत कमलके भ्रमको पैदा कर रहा है ।। ६३ ॥ अन्वय : पूरतः परितः वाससा रचितानि शिविराणि भूयसा विशदेन आत्मगुणेन दूरतः च कलहंसोपमितानि बभुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690