________________
:
:
( ३ )
}
केवलं शब्दानभिधेया, उत्प्रेक्षणीयापि न संभवतीत्याह-- संभवत्पदार्थविशेषास्तित्वाध्यवसायं ऊहस्तर्कः एवमेवं चैतत्स्यात्, स च यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् किमिति तत्र तर्काभाव इति चेदाह - मननं मतिः—मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुविधापि मतिस्तत्र न ग्राहिका, मोक्षावस्थाया सकल - विकल्पातीतत्वात्, तत्र च • मोक्षे कर्मशसमन्वितस्य गमनमा होस्विन्निष्कर्मण: ? न तत्र कर्मसम न्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह-- " प्रोजः " एकोऽशेष मलकलंकीकरहितः, किं च न विद्यते प्रतिष्ठानमोदारिक- शरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठाणो मोक्षस्तस्य ' खेदज्ञो" निपुणो यदि वा अप्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोक-नाडि - पर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता ' आवेदिता भवति । सर्वस्वरनिवर्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमा विष्कुर्वन्नाह - 'स' परमपदाभ्यासी लोकान्तक्रोशंषड्भागक्षेत्रोवस्थानोऽनन्तज्ञानदर्शनोपयुक्ता संस्थानमाश्रित्य न दीर्घा, न ह्रस्वो, न वृत्तो, न त्र्यस्रो, न चतुरस्रो, न परिमंडलो, वर्णमाश्रित्य न कृष्णो, न नीलो, न लोहितों, न हारिद्रो, न शुल्को, गन्धमाश्रित्य - न सुरभिगन्धो, न दुरभिगन्धो, रसमाश्रित्य न तिक्तो, न कटुको, न कषायो, नाम्ल न मधुरः, स्पर्शमाश्रित्य न कर्कशो, न मृदुः, न लघुः, न गुरुः, न शीतो, नोष्णो, न स्निग्धो, न रूक्षो, 'न काउ' इत्यनेन लेश्या गृहीता यदि वा न कायवान्. यथा:- वेदान्तवादिनाम् एक एवं मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति, आदित्यं - रश्मय इवांशुमन्त मितिः तथा न 'रूह' बीज - जन्मनि प्रादुर्भावेः “च” - रोहतीति रुहः न रुहोऽरुहः कर्मबीजाभावादपु दुः नर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शन निकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च
दग्धेंधन: पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारित भीरुनिष्ठम्