Book Title: Jain Tattvagyan Mimansa
Author(s): Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 371
________________ क्षुल्लकभाषासमन्विततिर्यग्देवमनुष्यभाषाकारन्यूनाधिकभावातीतमधुरमनोहरगम्भीरविशदवागतिशयसम्पन्न शतेन्द्रप्राप्तपूजातिशयो महावीरोऽर्थकर्ता। क्षेत्रतोऽर्थकर्ता पञ्चशैलपुरे (राजगृहनगरसमीपे) रम्ये पर्वतोत्तमे विपुलाचले भव्यलोकाना हितार्थ महावीरेणार्थ कथित । इत्य स एव विपुलाचलस्थो भव्यजीवानामर्थोपदेशको महावीर क्षेत्रका विज्ञेय । कालतोऽर्थकर्ताऽभिधीयते इम्मिस्से वसप्पिणोए चउत्थ-सममस्स पच्छिमे भाए। चीतीस-वास सेसे किंचि वि सेसूणए सते ॥ वासस्स पढममासे पक्खम्मि सावणे बहुले। पाडिवद-पुव्व-दिवसे तित्थुप्पत्ती दु अभिजम्मि । आभ्या गाथाम्यामिदमुक्तम्-अस्यामवसपिण्या चतुर्थकालस्य दुपमासुषमानामकस्यान्तिमे भागे किञ्चिन्न्यूनचतुस्त्रिशद्वर्षावशेष वर्पस्य प्रथममासे श्रावणेऽसितपक्षे प्रतिपद्दिवसे पूर्वाह्नेऽभिजिन्नक्षन्ने धर्मतीर्थोत्पत्ति (वीरशासनोत्पत्ति ) जाता। तात्पर्य मिद यच्छ्रावणकृष्णप्रतिपद्दिवसे भगवता तीर्थकरेण महावीरेण स्वदिव्यध्वनिना भव्यलोकस्य हितमपदिष्टमिति । अतएव श्रावणकृष्णप्रतिपहिवस समग्रजनससारे 'वीरशासन-जयन्ति' इति नाम्ना पर्व प्रख्यातिमवाप । वीरजयन्तिवद्वीरशासनजयन्त्यपि सम्प्रति क्वचित्क्वचित् समायुज्यते जैनै । इदानी भावतोऽर्थकर्ता निरूप्यते-कर्मचतुष्टयमुक्तोऽनन्तचतुष्टयसम्पन्नो नवकेवललब्धिसयुतो महावीरो भावश्रुतमुपदिशतीति भावतोऽर्थकर्ता समभिधीयते । तेन महावीरेण केवलज्ञानिना कथितार्थस्तस्मिन्नेव काले तत्रैव क्षेत्रे क्षायोपशमिकमत्यादिज्ञानचतुष्टयसम्पन्नेन जीवाजीवविषयसन्देहविनाशनार्थमुपगतवद्धमान-पादमूलेन गौतमेन्द्रभूतिनाऽवधारित । इत्थ श्रुतपर्यायेण परिणतो गौतमो द्रव्यश्रुतस्य कर्ता । तस्माद् गौतमाद् ग्रन्थरचना जाता इति । तेन गौतमेन द्विविधमपि श्रृत लोहार्यस्य सचारितम् । तेनापि जम्बूस्वामिन । एव परिभाटीक्रमेण एते त्रयोऽपि महाभागा सकलश्रुतधारका भणिता । परिपाटीक्रममनवेक्ष्य च सख्यातसहस्रा सकलश्रुतधारका वभूबु । गौतमदेवो लोहार्यो जम्बूस्वामी चैते त्रयोऽपि सप्तविघलब्धिसम्पन्ना सकलश्रुतपारगता भूत्वा केवज्ञज्ञानमवाप्य निर्वृति (मुक्ति) प्रापु । ततो विष्णुनन्दिमित्रादय पञ्चापि चतुर्दशपूर्वधारका जाता । तदनन्तर विशाखाचार्यादय एकादशाचार्या एकादशानामङ्गानामुत्पादपूर्वादिदशपूर्वाणा च पारगता सजाता । शेषोपरिमचतुर्णा पूर्वाणामेकदेशधराश्च । ततो नक्षत्राचार्यादय पञ्चाचार्या एकादशानामङ्गाना पारगताश्चतुर्दशाना च पूर्वाणामेकदेशज्ञातार सम्भूता । तत सुभद्रादयश्चात्वार आचार्या सामस्त्येनाचाराङ्गधारका शेषाङ्गपूर्वाणामेकदेशधारका समभवन् । एतेषा सर्वेषा काल ६८३ वर्षपरिमित । वीरनिर्वाणात ६८३ वर्षाणि यावदनश्रुतज्ञानमवस्थितम् ।। तत सर्वेषामङ्गाना निखिलपूर्वाणा चैकदेश श्रुतबोध आचार्यपरम्परया धरसेनाचार्य सम्प्राप्त इति । तेन घरसेनाचार्येण श्रुतवत्सलेनाष्टाङ्गमहानिमित्तपारतेन ग्रन्थविच्छेदो भविष्यतीति जातश्रुतविच्छेदभयेन महिमानगर्यां समायोजिते विशिष्टधर्मोत्सवे सम्मिलिताना दक्षिणापथाचार्याणा समीपे एको लेख (पत्रात्मक ) प्रेषितः । तल्लेखात् धरसेनाचार्यस्य श्रृतरक्षणाभिप्राय विज्ञाय तैराचार्यविद्याग्रहण-धारणसमर्थों धवलामलबहुविधविनयविभूषिताङ्गो सुशीली देश-कुल-जातिशुद्धो सकलकलापारगतौ द्वौ साधू धरसेनाचार्यसमीपे सौराष्ट्रदेशस्थे गिरिनगरे प्रेषिती । निशाया पश्चिमे प्रहरे धरसेनाचार्येणातिविनयसम्पन्नौ धवलवों शुभौ द्वौ वृषभो स्वप्ने दृष्टौ । एवविध सुस्वप्न दृष्ट्वा प्रसन्नेन चेतसा धरसेनाचार्येण 'जयउ सुयदेवदा'-जयतु श्रुतदेवतेति सलपितम् । तस्मिन्नेव दिवसे प्रात तो द्वावपि साधू समागतौ । ताभ्या घरसेनाचार्यस्य पूर्णतया विनयाचारो विहित । तथापि तयो परीक्षणार्थ सुपरीक्षा हि हृदयसन्तोषकरेति सञ्चिन्त्य हीनाधिकवर्णयुक्ते द्वे विद्ये साधयितु प्रदत्ते । तो प्रत्युक्त चैते विद्ये षष्ठोपवासेन साघनीये । तदनन्तर तयो विकृताङ्गे विद्यादेयते -३४३

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403