________________
क्षुल्लकभाषासमन्विततिर्यग्देवमनुष्यभाषाकारन्यूनाधिकभावातीतमधुरमनोहरगम्भीरविशदवागतिशयसम्पन्न शतेन्द्रप्राप्तपूजातिशयो महावीरोऽर्थकर्ता। क्षेत्रतोऽर्थकर्ता पञ्चशैलपुरे (राजगृहनगरसमीपे) रम्ये पर्वतोत्तमे विपुलाचले भव्यलोकाना हितार्थ महावीरेणार्थ कथित । इत्य स एव विपुलाचलस्थो भव्यजीवानामर्थोपदेशको महावीर क्षेत्रका विज्ञेय । कालतोऽर्थकर्ताऽभिधीयते
इम्मिस्से वसप्पिणोए चउत्थ-सममस्स पच्छिमे भाए। चीतीस-वास सेसे किंचि वि सेसूणए सते ॥ वासस्स पढममासे पक्खम्मि सावणे बहुले।
पाडिवद-पुव्व-दिवसे तित्थुप्पत्ती दु अभिजम्मि । आभ्या गाथाम्यामिदमुक्तम्-अस्यामवसपिण्या चतुर्थकालस्य दुपमासुषमानामकस्यान्तिमे भागे किञ्चिन्न्यूनचतुस्त्रिशद्वर्षावशेष वर्पस्य प्रथममासे श्रावणेऽसितपक्षे प्रतिपद्दिवसे पूर्वाह्नेऽभिजिन्नक्षन्ने धर्मतीर्थोत्पत्ति (वीरशासनोत्पत्ति ) जाता। तात्पर्य मिद यच्छ्रावणकृष्णप्रतिपद्दिवसे भगवता तीर्थकरेण महावीरेण स्वदिव्यध्वनिना भव्यलोकस्य हितमपदिष्टमिति । अतएव श्रावणकृष्णप्रतिपहिवस समग्रजनससारे 'वीरशासन-जयन्ति' इति नाम्ना पर्व प्रख्यातिमवाप । वीरजयन्तिवद्वीरशासनजयन्त्यपि सम्प्रति क्वचित्क्वचित् समायुज्यते जैनै । इदानी भावतोऽर्थकर्ता निरूप्यते-कर्मचतुष्टयमुक्तोऽनन्तचतुष्टयसम्पन्नो नवकेवललब्धिसयुतो महावीरो भावश्रुतमुपदिशतीति भावतोऽर्थकर्ता समभिधीयते । तेन महावीरेण केवलज्ञानिना कथितार्थस्तस्मिन्नेव काले तत्रैव क्षेत्रे क्षायोपशमिकमत्यादिज्ञानचतुष्टयसम्पन्नेन जीवाजीवविषयसन्देहविनाशनार्थमुपगतवद्धमान-पादमूलेन गौतमेन्द्रभूतिनाऽवधारित । इत्थ श्रुतपर्यायेण परिणतो गौतमो द्रव्यश्रुतस्य कर्ता । तस्माद् गौतमाद् ग्रन्थरचना जाता इति । तेन गौतमेन द्विविधमपि श्रृत लोहार्यस्य सचारितम् । तेनापि जम्बूस्वामिन । एव परिभाटीक्रमेण एते त्रयोऽपि महाभागा सकलश्रुतधारका भणिता । परिपाटीक्रममनवेक्ष्य च सख्यातसहस्रा सकलश्रुतधारका वभूबु । गौतमदेवो लोहार्यो जम्बूस्वामी चैते त्रयोऽपि सप्तविघलब्धिसम्पन्ना सकलश्रुतपारगता भूत्वा केवज्ञज्ञानमवाप्य निर्वृति (मुक्ति) प्रापु । ततो विष्णुनन्दिमित्रादय पञ्चापि चतुर्दशपूर्वधारका जाता । तदनन्तर विशाखाचार्यादय एकादशाचार्या एकादशानामङ्गानामुत्पादपूर्वादिदशपूर्वाणा च पारगता सजाता । शेषोपरिमचतुर्णा पूर्वाणामेकदेशधराश्च । ततो नक्षत्राचार्यादय पञ्चाचार्या एकादशानामङ्गाना पारगताश्चतुर्दशाना च पूर्वाणामेकदेशज्ञातार सम्भूता । तत सुभद्रादयश्चात्वार आचार्या सामस्त्येनाचाराङ्गधारका शेषाङ्गपूर्वाणामेकदेशधारका समभवन् । एतेषा सर्वेषा काल ६८३ वर्षपरिमित । वीरनिर्वाणात ६८३ वर्षाणि यावदनश्रुतज्ञानमवस्थितम् ।।
तत सर्वेषामङ्गाना निखिलपूर्वाणा चैकदेश श्रुतबोध आचार्यपरम्परया धरसेनाचार्य सम्प्राप्त इति । तेन घरसेनाचार्येण श्रुतवत्सलेनाष्टाङ्गमहानिमित्तपारतेन ग्रन्थविच्छेदो भविष्यतीति जातश्रुतविच्छेदभयेन महिमानगर्यां समायोजिते विशिष्टधर्मोत्सवे सम्मिलिताना दक्षिणापथाचार्याणा समीपे एको लेख (पत्रात्मक ) प्रेषितः । तल्लेखात् धरसेनाचार्यस्य श्रृतरक्षणाभिप्राय विज्ञाय तैराचार्यविद्याग्रहण-धारणसमर्थों धवलामलबहुविधविनयविभूषिताङ्गो सुशीली देश-कुल-जातिशुद्धो सकलकलापारगतौ द्वौ साधू धरसेनाचार्यसमीपे सौराष्ट्रदेशस्थे गिरिनगरे प्रेषिती । निशाया पश्चिमे प्रहरे धरसेनाचार्येणातिविनयसम्पन्नौ धवलवों शुभौ द्वौ वृषभो स्वप्ने दृष्टौ । एवविध सुस्वप्न दृष्ट्वा प्रसन्नेन चेतसा धरसेनाचार्येण 'जयउ सुयदेवदा'-जयतु श्रुतदेवतेति सलपितम् । तस्मिन्नेव दिवसे प्रात तो द्वावपि साधू समागतौ । ताभ्या घरसेनाचार्यस्य पूर्णतया विनयाचारो विहित । तथापि तयो परीक्षणार्थ सुपरीक्षा हि हृदयसन्तोषकरेति सञ्चिन्त्य हीनाधिकवर्णयुक्ते द्वे विद्ये साधयितु प्रदत्ते । तो प्रत्युक्त चैते विद्ये षष्ठोपवासेन साघनीये । तदनन्तर तयो विकृताङ्गे विद्यादेयते
-३४३