Book Title: Jain Tattvagyan Mimansa
Author(s): Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
दृष्टिपथमाजग्मतु । तयोर्मध्ये एकोद्गतदन्ता अपरैकनेया। न चैपो देवताना स्वभाव इति विचिन्त्य मत्रव्याकरणशास्त्रकुशलाम्या ताभ्या ते विद्ये शद्धीकृत्य पुन साधिते । ततश्च ते विद्यादेवते स्वस्वभावस्थिते दष्टे । पुनस्ताम्या सर्वमेतद्वृत्त वरसेनाचार्य प्रति निवेदितम् । घरसेनाचार्येण ज्ञातश्रुतग्रहणयोग्यताविशिष्टपात्रेण सन्तुप्टेन शुभतिथौ शुभनक्षत्रे शुभदिवमे ताम्या सिद्धान्तग्रन्थ प्रारब्ध । पुन क्रमेण व्याचक्षमाणेन तेन धरसेनाचार्येणाषाढमासशुक्लपक्षकादशम्या पूर्वाह्न ग्रन्थ समाप्ति नीत । तेन सन्तुष्टभूतविशेषैर्देवैस्तदा तयोर्मध्ये एकस्य वलि (नैवेद्य) पुष्पादिभि महती पूजा कृता । तेनाचार्येण धरसेनेनैकस्य भूतवलोति नाम कृतम् । अपरस्य भूतविशेषवेरेव पूजितस्य समीकृतास्तव्यस्तदन्तस्य पुष्पवन्त इति सज्ञा कृता । एताभ्यामेवाचार्याया पट्खण्डागमस्य धरसेनाचार्यत पठितस्य ग्रन्थ-रचना कृता । यद्यपि अल्पायुष्केण पुष्पदन्ताचार्येण विशति
णासमन्वितसत्प्ररूपणाया एव सत्राणि रचितानि. भतबल्याचार्यस्य सविधे जिनपालितद्वारा प्रेषितानि च, भगवता भूतबलिभट्टारकेण महाकर्मप्रकृतिप्राभूतस्य विच्छेदो भविष्यतीति विचार्य द्रव्यप्रमाणानुगमादिनिखिलपट्खण्डागमश्रुतस्य निवन्धन कृतम्, तथापि खण्डसिद्धान्तापेक्षया तावुभावाचार्या श्रुतस्य (पटखण्डागमस्य) कारावभिधीयते ।
एव मूलग्रन्थकर्ता वर्द्धमानभट्टारक, अनुग्रन्थकर्ता गौतमस्वामी, उपग्रन्थकर्तारो भृतवलि-पुष्पदन्तादयो वीतराग-द्वेष-मोहा मुनिवरा इत्यवधेयम् । श्रतनिवन्धनविपयकमेतावन्मात्रमेव वृत्त वीरसेनाचार्येण धवलाटीकाया निबद्धमस्ति । अतस्तदुक्तवचनात् श्रुतारम्भतिथिर्न विज्ञायते । तस्मात्तु केवलमिदमेवावगम्यते यच्छुभतिथौ शुभनक्षत्रे शुभवारे ताभ्या श्रुताम्यास समारब्ध । आषाढमासशक्लपक्षकदशम्या च समाप्ति नीत ।
किन्तु श्रीमदिन्द्रनन्दिकृते श्रुतावतारे पुस्तकाकारेण निवद्धस्य श्रुतस्य (षट्खण्डागमस्य) तिथे स्पष्टतयोल्लेख कृत । तथा हि
ज्येष्ठसितपक्षपञ्चम्या चातुर्वर्ण्यसघसमवेत । तत्पुस्तकोपकरणैर्व्यधात् क्रियापूर्वकं पूजाम् ।। श्रु तपञ्चमीति तेन प्रख्याति तिथिरिय परामाप ।
अद्यापि येन तस्या श्रुतपूजा कुर्वते जैना ।। अत एतत्प्रमाणाज्ज्येष्ठशुक्ला पञ्चमी समपलब्धस्य निबद्धश्रतस्य तिथिरिति निश्चीयते । अत्र सन्देहस्य किमपि कारण नास्ति, तदवचनस्य प्रामाण्याङ्गीकारात ततोऽस्या तिथौ श्रृतपञ्चमीसमारोह सर्वे जैन समुल्लासपूर्वक समायुज्यते ।
-३४४ -

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403