Book Title: Jain_Satyaprakash 1949 04
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ ] શ્રી જન સત્ય પ્રકાશ [ વર્ષ ૧૪ जीवा निरञ्जन! समीहितसिद्धभावा, भावावधूतभवभङ्गुरभूरिभावम् । देवं भवन्तमवहाय निरुद्धसङ्गं, नालं ससङ्गमपरं मनसा भजन्ति ॥६॥ भावी भवोऽथ तनुको मम वीरदेव !, सेवा मया सकलपापहरी तवाऽऽपे'। किंवाऽनुहंसमुदयङ्गतमन्धकार, पीडावहं भवति भूवलये कदापि ॥ ७॥ जातानुरागधरणीधवमाधवादि-संसेवनीयचरणं चरणं चरन्तम् । आसन्नसिद्धिकमला विमलावसाया, देवं नमन्ति म परे भवंगा भवन्तम् ? ॥ ८ ॥ लीलाविलासकिलिकिश्चितहावभाव-बिब्बोकमन्थरगमागमचारुदेहा । सम्मोहिनी धवलबालमरालमत्त-मातङ्गहारिगमना पिकमनुकण्ठी ॥९॥ बाढ विलोचनविकूणनसङ्गतेन, बिम्बाधरेण दरहासनिभालितेन । वेणीभुजङ्गमसहायमदोदुरेण, मोहं परं तरुणमानसमानयन्ती ॥१०॥ हारावलोकनकचम्पकचारुबद्ध-सन्नीलकञ्चुकपयोधरभारखिन्नाः । भालेऽलकालीवलनेन मनो हरन्ती, नारी मनो नयति साऽपि न ते विकारम् ॥११॥ - ॥ त्रिभिविशेषकम् ॥ आगारवासविरमाय समुल्लसन्तु, सावेगमागमगणं सुचिरं भणन्तु । हे देव ! ते चरणकारणमन्तरेण, संसारपारमधिनाथ ! कथं लभन्ते ? ॥१२॥ सम्पन्नसिद्धिरमणीवरसङ्गमाय, निस्सङ्गमानसरसालविहङ्गमाय । काम नमो निखिलजन्तुसमीहिताय, सम्पूरणादरपराय परागमाय ॥ १३ ॥ आकन्दमन्दरमहीधरधीरभावं, संसारनीरनिधितारणनद्धनावम् । वीरं भजे सजलमेघगभीरराव, लोकावलोकितमहो ! विपुलानुभावम् ॥१४॥ भावावबोधकरणं चरणाभिरामं, बाढं महोदयमयं नवमञ्जुलाभम् । बुद्धादरं सुगमभङ्गतरङ्गसङ्ग-१ मीहे महामहिमगेह ! समागमं ते ॥१५॥ ६ प्राप्ता । ७ सूर्योदयानन्तरं तमः किं लोकं पीडयति, अपि तु नेत्यर्थः । ८ शैवाः संसारभ्रमणकारिणा वा। ९ कटाक्षः। १० आयो लाभः, अयो भाग्यं वा। ११ ते तव समागममीहे, समाविषपश्चासावागमश्च तम्, यद् हृदये आगमनं वा । तत्रागमपक्षे-भावा० पदार्थमात्रप्रकाशकम् , च० चरणसप्तत्यादिविचारसुन्दरम्, म० मोक्षप्रधानम्, नव० अपूर्वार्थप्राप्तिकारकम्, बु० सोगवादिभयरहितम्, सु० शोभनसदृशपाठभङ्गरचनारूपतरङ्गयुक्तम् । चित्तागमनपक्षे- भा० चित्ताहलादकारकम्, च० चामनोहरम्, म० उदयकारकम्, न० नवा मञ्जुला आमा यस्य भामण्डलान्वितत्वात्, घु० शानिनामादरो यत्र, सु० सुलभा भा पदैकदेशे पदसमुदायोपचारात् प्रतिभा यस्मात्, ग० निरअमित्यर्थः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28