Book Title: Jain_Satyaprakash 1944 07
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा १० ] श्रीमहावीrd-तात्रम् | ४33 विभूत्येत्यर्थः । पु. की. तं? गुरुमिति बृहस्पतिस्वरूपमिति, कया? बुद्धयेति, कीदृश्या तया? सतां सर्वदयेति सर्व ददातीति सर्वदा, तया, तथा च सकलमनोऽभिलषितसर्वपदार्थदानसमर्थ येत्यर्थः । पु. की. तया? दयामाददातीति दयाऽऽदा, तया, यद्वाऽदयां द्यतीति अदयाद्या-तया तथा च हिंसारहितयेत्यर्थः, तथा च बुद्धिः सतामुपरिष्टाद् दयाकारिणी अत एव सज्जनमनोमनोरथपूरिकेति हेतुहेतुमद्भाव ऊहनीयः। पु. की. त? भास्वत्प्रभावभिति-सूर्यसदृशप्रतापबन्तमित्यर्थः। कया? विभया-दीप्त्येत्यर्थः, कीदृश्या तया? अभयाभयेति, न विद्यते भयं येषां तेऽभयास्तीर्थकरास्तदाभया-तत्सदृश्येत्यर्थ: । पु.की.तं ? मुनीशितारभिति, स्पष्टम् । पु. की.तं. ? सुदरंसुष्टु द-दानं रातीति सुदरस्तमित्यर्थः । तथा च दर्शनशानचारित्रदानदातारमित्यर्थः । "दः शुद्ध दोऽवदाते च दातरिच्छेददानयोः" इति विश्वप्रकाशः। पु.की.तं. ? दरंदरमिति दरं दृणातीति दरंदरस्तमित्यर्थः तथा च परजनभयविदारकमित्यर्थः ॥१॥ भक्त्या नमस्कृत्य-स्थले क्त्वास्थानीययप्प्रत्ययस्योत्तरकालीनक्रियासापेक्षत्वात् पूर्वोपदर्शितविशेषणविशिष्टस्वकीयगुरुनमस्कारोत्तरकालीनपरमात्ममहावीरतीर्थकरस्तवनं दर्शयन्नाह श्रीवोरमहन्तं स्तुधे इति । की. त ? अहो इत्याश्चर्ये, महोमहोदयमिति महसः-तेजसो महान् , उदयो यस्मिन् स महोमहोदयस्तमित्यर्थः, आश्चर्यरूपोदितोत्कृष्टतेजःपुञ्जशालिनमित्यर्थः। पु.को.? देवाधिदेवमिति स्पष्टम् । पु की. ? कलङ्कलमिति चन्द्रमिवेत्यर्थः । सकलमिति कलासहितम् । सुमनोमनोमनोहारानुभावमिति सज्जनचित्तचमत्कारिप्रतापवन्तमित्यर्थः, यथा च चन्द्रः कलासहितः सजनचेतोहारी तथा भगवानपि केवलज्ञानादिरूपसहजकलायुतः पण्डित (देवता)जनमनोहारीति तात्पर्य प्रतिभाति । (कलङ्कलमिति कलङ्क लाति गृह्णाति बिभर्तीति कलङ्कभृश्चन्द्रस्तमित्यर्थः) पु. की. ? हितमिति रक्षकत्वेन सर्वेभ्यो हितकारिणमित्यर्थः भक्तहितमिति तारकत्वेन भक्तवत्सलमित्यर्थः। एतादृशविशेषणविशिष्टं तं श्रीवीरमहन्तं स्तुवे-स्तुतिगोचरतां नयामीत्यर्थः ॥२॥ श्रीत्रेशलेयोऽवृजिनो जिनो जिनोऽ४नंगाधिराजोऽममतामतामताः । देयादलं वः परमारमारमा-पीयूषगीदेवरतीरतीरतीः ॥ ३ ॥ श्रीत्रैशलेय इति. श्रीसहितमहावीर इत्यर्थः । की. सः ? अवृजिन इति न विद्यते वृजिनं-पाप-कर्भ वा यस्य सोऽवृजिनः पापकर्मशून्य इत्यर्थः । पु. को.? जिन इति अर्हन्नित्यर्थः। पु. की? जिनोऽनंगाधिराज इति अधिराजत इति अधिराट्, अनंगश्चासावधिराट् च, तस्य जिनो-जेतेति, तथा च कामराजस्य जेतेत्यर्थः । ૩. પાપકર્મરહિત, જિનેશ્વર, કામરાજના વિજેતા શ્રી ત્રિશલાનંદન પરમાત્મા મહાવીર તમને કામરાગાદિકની ગન્ધરહિત અને સમ્યગ્દષ્ટિઓને અભિમત એવી મોક્ષલક્ષ્મી, અમૃતસદશવાણી અને સુદેવવિષયક પ્રીતિઓ આપે છે કે છે ४. इदं हि नंगाघरातो' इत्यस्य शुद्धीभूतम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28