Book Title: Jain_Satyaprakash 1944 07 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ १० શ્રી મહાવીરજિન–સ્તેત્રમ । ४३५ श्रीवर्धमानोऽभवोऽवताद्वश्चेत्यन्वयः । की. सः ? कलं-ज्ञानं, अमतो गच्छतः प्राप्नुवतोऽसुमतः-प्राणिनो मतोऽभीष्टतमः पूजित इति यावत्, किं कृत्वा मतः ? तबाह कलं कलमिति, यथार्थत्वेन तत्स्वरूपं संख्याय संख्याय, विचार्य विचार्य मत इत्यर्थः । (कलिशब्दसङ्ख्यानयोरिति धातोः ख्णम्प्रत्यये “ नामिनोऽकलिहलेः” इति सूत्रेण वृद्धयभावात्कलं कलमिति, अमत इति अम गतौ, शतृप्रत्यये षष्ठयां विभक्तौ) पु. की. ? तीर्थतसत्रासदय इति तीर्थमिताः प्राप्ताः, सत्रासाः संसारभयभीताः, तीर्थतसत्रासास्तान दयते, यद्वातेषु दया यत्र स तोर्थतसत्रासदयस्तम् । योदयोऽहितोऽ. पि काममिति अत्र विरोधाभासालङ्कारस्तथा अहितः-शत्रुः सन् कथं दयावानिति विरोधः, परिहारस्त्वित्थं अहितोऽपि-सऽपि (सार्वविभक्तिकतसि प्रत्यये ) दयाया उदयो यत्र स दयोदयस्तथा च भगवता कौशिकाभिधाने दृष्टिविषधरेऽपि प्रकृत्या कारुणिकेन दया विहितेति सिद्धान्तोऽपि सङ्गतिमङ्गति (काममित्यव्ययं प्रकामार्थद्योतकमित्यर्थः ) पु. की ? जलतालतालतेति जलतालयोखि-यथा जलं स्वच्छं तथा स्वच्छा, तालो यथोच्चः प्रसिद्धस्तथा सर्वलक्ष्मीभ्य उच्चतमा या, ता:आत्मलक्ष्मीस्तस्या लतारूप आश्रयविशेष इत्यर्थः, यथा लक्ष्मीलतया जनानां लक्ष्मीप्राप्तिस्तथाहतां सेवयाऽऽर्हन्त्यरूपलक्ष्मीभव्यैः प्राप्यते भृङ्गकीटन्यायादिति तात्पर्य प्रतिभाति ॥ ५॥ ७भदंत ! देवार्य ! भवाभवाभवा-वतार ! कामे पिहितेऽहितेहिते । निःश्रेयसानन्दकृते कृते कृते-ज्ञानामृतान्तर्दम ! माऽममाम ! मा ॥६॥ भदंत ! देवार्य ! वीर ! निःश्रेयसानन्दकृते मा भव मेत्यन्वयः। की. ? अभव ! न विद्यते भवः-संसारो यत्र पुनरागमनाभावात् स तत्संबुद्धौ । पु. की. आईषदर्थकमव्ययं न तु साकल्येने, भवावतार! शिवावतारस्वरूप! किं सति शिवावतारत्वमित्याह कामे पिहिते इति यथा शिवेन मदनो दग्धस्तथा भगवताऽपि कामो भस्मीकृत इत्यर्थः । पुनः अहितेहिते इति शिवपक्षे सर्पसमुदायेप्सिततमे इति, भगवत्पक्षे तु अहिते-शत्रावपि, हिते-हितकारिणि सति (शब्दच्छलेन) भगवान् भवावताररूप इत्यायातम् शब्दस्वारस्यादित्यर्थः । पु. की? कृतज्ञानामृतान्तर्दम ! इति, ईश्च-लक्ष्मी श्च ज्ञानामृतं चान्तर्दमश्च ईज्ञानामृतान्तदमाः, कृताः पर्याप्ता ईज्ञानामृतान्तमा यस्मिन् ल तत्लम्बुद्धौ कृतेज्ञानामृतान्तर्दम ! ॥ ૭. હે મંદત! દેવાઈ ! મહાવીર ! ભવવાસનારહિત ! કિંચિત સાદયથી શિવાવતાર રૂપ! જેમ મહાદેવે કામને ભસ્મસાત કર્યો પ્રસિદ્ધ છે તેમ આપે કામને છ છે. (અહીં જાલંકાર છે.) અહિત હિતે-મહાદેવ સર્ષોના સમુદાયથી સિત છે. ભગવત્પક્ષે શત્રુઓના વિષે પણ હિત કરવાવાળા છે. તેવી રીતે શબ્દ વ્યાજથી શિવાવતારરૂપ, મમતા અને રોગ રહિત, સંપૂર્ણતયા ચારિત્રલમી, જ્ઞાનામૃત અને અન્તરિંદ્રિયદમનવાળા, કામક્રોધ વિનાશક, એવા આપ લાવ્યોના મેક્ષાનંદ માટે થાઓ છે ૬ છે For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28