Book Title: Jain_Satyaprakash 1944 07 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જૈન સત્ય પ્રકાશ पु. की. ? अममाम ! इति, न विद्यते मम-माम-ममत्वं (भावप्रधानो निर्देशः) आमश्च-रोगो यस्य यत्र वा स तत्सम्बोधने अममाम ! कृते-युगे यद्वा हिंसितकामक्रोध ! एतादृशविशेषणविशिष्ट! हे भगवन् निःश्रेयसानन्दकृते मोक्षानन्दाय मा भव मा, अपितु त्वं भवैवेत्यर्थः । “ द्वौ नौ प्रकृतमर्थ गमयतः " इति न्या. यात् । “कृतं पर्याप्तयुगयोर्हिसितं विहितं फलम्” इति हैमः, “कृते अर्थे " इत्यव्ययम् ( इस्यात्खेदे प्रकोपोक्तौ कामदेवे त्वनव्ययम् । “ईदुःखभावनेक्रोधईल. क्षम्यां तु नाव्ययम्" ॥ ६॥ ८अकारि ते गौः सुधया धयाधया-ग्रस्ताऽविमुक्ताऽमितयातयातया। यानन्तमाहात्म्यमयामयामया, सिततिधेया सुरसारसारसा ॥७॥ ते-तव गौः-वाणी सुधया-अमृतेन अकारि-रचिता विधात्रेवेति शेष इत्यन्वयः । की. गौः ? अविमुक्ताऽमितयातयातयेति मितं-मानं च यातं च-यानं चलनमित्यर्थः, मितयाते न मितयाते अमितयाते-अमानाचले इत्यर्थः, तयोर्या-लक्ष्मी शोभेति यावत् तस्य भावस्तत्ता तया अविमुक्ता युता तथा चामानामोघस्वरूप वतीत्यर्थः । पु. किम्भूता ? यानन्तमाहात्म्यमयामयामयेति या वाणी, अनन्तं यन्माहात्म्यं-महिमा तत्प्रधानो योऽमः ज्ञान (अमनममः, “सर्वे गत्यर्था ज्ञानार्था" इति न्यायात् ) तस्य या-लक्ष्मीस्तत्प्रचुरेत्यर्थस्तथा चानन्तमाहात्म्यशालिज्ञानप्रचुरेति तात्पर्यम् । पु. किम्भूता ? सितत्तिधेयेति सिता-अवसिता, ज्ञातेत्यर्थः, ऋतिः-कल्याणं गतिर्वा यैस्ते सितर्तयस्तैर्धया ग्राह्या पेयेति यावत् , बद्धस्पर्धेर्वा पेया, "सितस्त्ववसिते बद्धे वर्णे। “ऋतिर्जुगुप्साकल्याणगतिस्पर्धासु" इति हैमः। पु. किम्भूता सुरसारसारसेति-सुरा-देवास्ते एव सारसाः पक्षिविशेषास्तरा-सामस्त्येन रस्यतेआस्वाद्यते या सा सुरसारसारसा, यद्वा सुरसा-सु-शोभनो रसः शान्ताख्यो यत्र सासुरसा, रसारसा-रसया-जिह्वया रस्यते पठ्यते नित्यं मुनिभिरिति रसारसेत्यर्थः । पु. किम्भूता? धयाधयाग्रस्तेति, धयाधयाः पानकारस्तैराग्रता-पीतेत्यर्थः ॥ ७ ॥ ८इत्थं स्तुतो जिनवरोऽखिलभाववेदी, सिद्धार्थभूपकुलकाननकल्पवृक्षः । सूरीशितुर्विजयदानगुरोविनेय-सूरीशहीरविजयेन मुदा प्रसन्नः ॥ ८॥ इत्याचार्यवर्य-कविकुलकिरीट-श्रीमल्लब्धिसूरीश्वरान्तेवासि-वाचकवर्थ-श्रीमद्भुवनविजयमहाराजक विनेय-श्रीभद्रङ्करविजयाख्यमुनिना विहितेयमवचूरी समाप्ता ॥ ૮. જાણે આપની વાણું વિધાતાએ બનાવી ન હોય તેમ અમૃતમય વાણું છે. ફેર તે વાણી અમાનામઘસ્વરૂપ, અનંત મહિમાશાલી જ્ઞાનગંભીર, કલ્યાણુભિલાષક જનને ગ્રાહ્ય, શાન્તરસમય, હંમેશાં જે વાણી મુનિજનાદિ દ્વારા જીભથી ઊચ્ચારાય છે, ગેખાય. ભણાય છે, પાન કરવાવાળા વિકિજને દ્વારા નિત્ય પય છે, ઉપાદેય છે. (૭) ૯ સિદ્ધાર્થ રાજના કુલ રૂપ વનમાં કલ્પવૃક્ષ સમાન, અખિલ પદાર્થને જાણકાર, સદા પ્રસન્ન, જિનવર શ્રીવર્ધસ્વામીની આ પ્રમાણે સ્તુતિ સૂરીશ્વરવિજયદાનસૂરિશેખર મહારાજના શિષ્ય શ્રી હીરસૂરીશ્વરજી મહારાજે કરેલ છે. (૮) For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28