Book Title: Jain Satyaprakash 1940 10 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] શ્રી જૈન સત્ય પ્રકાશ [१५ अपरे च परेतपिशाचमहोरगभूतगणा अपि भीतिकराः। न भवन्ति भवन्तमनन्तशिवं सुचिरं शुचि चेतसि चिन्तयताम् ॥११॥ तवैवाभिधानकजापादपापा अपाये पयःपूररूपेऽपि केऽपि । न सीदन्ति नूनं महापोतलामादिनाऽमी परं पारमासादयन्ति ॥१२॥ यदीयानुभावेन भूयो जनानां भृशं जायते भूरिरोगादिशान्तिः । महावारिवाहागमेनेव नानावनानामिहानेकदावोपशान्तिः ॥१३॥ दलिताखिलमोहमहातमसं तमसङ्गमभङ्गुरशान्तरसम् । विनुवामि ममामितकामितदं जिननाथमथो मदितोरुमदम् ॥१४॥ जय जय जिनपुङ्गव ! देवदेव ! सुरदानवमानवविहितसेव !। शिवदाशयसंशयतिमिरपूरपूरितजनमानसगगनमूर ! ॥१५॥ कुमुदाकरशीतलकलविशाल ! शमपूरितरितदूरितजाल !। करुणावरुणालयलयनिधान ! जय जय शिवसाधनसावधान ! ॥१६॥ विपुलामलगुणगणमणिसुखानि समहे समतामय ! कुरु सुखानि । सुवशीकृतशान्तरसातिरेक ! जगदीश ! विकासितवरविवेक ! ॥१७॥ कलिना मलिनीकृतजीवलोकमखिलं विमलीकुरु वीतशोक !। सुन्दरवामोदर सरसिहंस ! जय भव-भय-भञ्जन जिनावतंस! ॥१८॥ कमठऋषिरोषबहुदोषविषभेषजं विषमतरमानतरुभञ्जनेऽवरगजम् । कुटिलमायातागहनदहने दवं भूरि गुरुलोभगिरिभेदभिदुरं नवम् ॥१९॥ बहुलभावेन भुजगेश ! संसेवितं तं जिनाधीशमनिशं सुरैरश्चितम् । एवमानौमि महनीयमहिमाऽऽलयं केवलालोकपरितुलितजगदाशयम् ॥२०॥ इत्येवं तव देव ! संस्तवमसंयुक्ताक्षरं सुन्दरं कृत्वा मोक्षमनन्तकर्मभिरसंयुक्तं सदैवाक्षरम् । याचे पार्श्वजिनेश ! चेतसि धृतानान्तार्थचिन्तामणे ! पूज्यश्रीजिनहर्षमरिविदितः त्रैलोक्यचूडामणे ! ॥२१॥ इति श्रीपार्श्वनाथस्तवनं केवलाक्षरमयम् । सं० १६४४ वर्षे । આ સ્તવન પાટણની પૂજ્ય મુનિરાજ શ્રી પુણ્યવિજ્યજી મહારાજની એક હસ્તલિખિત प्रत ५२था उतार्यु छे. स्तनना छने 'केवलाक्षरभयम् ' सभ्युं छे तेने। अथ छे । આ સ્તવનમાં કયાંય પણ જોડાક્ષર નથી આવતો. અનુસ્વારના બદલે જોડાક્ષર જરૂર આવે છે પણ તે જોડાક્ષર ન ગણાય. આ સ્તવનની આ વિશેષતા છે, For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44