Book Title: Jain Satyaprakash 1940 10
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । वीराय नित्यं नमः। श्रा नसत्यपाश માસિક પત્ર: વર્ષ ૬ : અંક ૨ : ક્રમાંક ૬૨ श्री जिनहर्षसूरिविरचितम् श्रीजीरापल्लीपार्श्वजिनस्तवनम् संग्राहक : मुनिराज श्री जयन्तविजयजी जिनं नौमि जीरापुरीसुन्दरीये, ललाटे ललामोपमानं दधानम् । वरामेयभावेन वामेयदेवं, परं किञ्चिदेवं चिदानन्दरूपम् ॥१॥ चिरं चेतसा चिन्तितातीतदायी, जिनो यो बुधानां च मेधाविधायी । पयोदोपमानं तमानन्दकन्देऽभिवन्देत मन्देतरः को न देवम् ॥२॥ दधानं सदम्भोजशोभो विभो ! ते, मुखं नाशिताऽशेषदोषानुषङ्गम् । नवीनेन्दुबिम्बायमानं जनानां, न जायेत तोषपोषाय केषाम् ॥३॥ सकलं कमलोपशोभितं जिन !, वायेय ! मुखं तवाश्चितम् । सकलं कमलेन निन्दितः, कथमेषोऽनुकरोतु शीतगुः ॥४॥ विदधाति सुधाऽतिशायिनी, तव वाणी बहुधा सुमेधसाम् । अजरामरतां सतां सती, विनिपीता तरसा रसाधिका ॥५॥ भृतकाममन्ततेजसं हतकामेन तथान्धकारिणा । अभवं च भवेन शम्भुना कथमेवोपमीमहे विभुम् ॥६॥ शुभभावनयाऽनया सततं सातिशयं निषेवते । जनता जिन ! तावकं पदं लभते सा तु कुतः परं पदम् ॥७॥ भवतो न नतो यदताररुचेरिह नामवशेन समेति शमम् । पथि संसुखमापतितोऽपि विभो ! वनदावभरो जलदेव यथा ॥८॥ तव नाम चिरं परिचिन्तयतो न भुजानुमतं गजतोऽभिभवः । न च किश्चिदथापि च पञ्चमुखादपि संभवतीह भयं भविनः ॥९॥ अहिनाऽपि हि नामजपादपि ते कुपितेन समापतताऽपि सता । भविनामथ नाथ ! भयं न भवेदिह माहमहाविषदोपहर ! ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44