________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। वीराय नित्यं नमः।
श्रा नसत्यपाश
માસિક પત્ર: વર્ષ ૬ : અંક ૨ : ક્રમાંક ૬૨
श्री जिनहर्षसूरिविरचितम् श्रीजीरापल्लीपार्श्वजिनस्तवनम्
संग्राहक : मुनिराज श्री जयन्तविजयजी जिनं नौमि जीरापुरीसुन्दरीये, ललाटे ललामोपमानं दधानम् । वरामेयभावेन वामेयदेवं, परं किञ्चिदेवं चिदानन्दरूपम् ॥१॥ चिरं चेतसा चिन्तितातीतदायी, जिनो यो बुधानां च मेधाविधायी । पयोदोपमानं तमानन्दकन्देऽभिवन्देत मन्देतरः को न देवम् ॥२॥ दधानं सदम्भोजशोभो विभो ! ते, मुखं नाशिताऽशेषदोषानुषङ्गम् । नवीनेन्दुबिम्बायमानं जनानां, न जायेत तोषपोषाय केषाम् ॥३॥ सकलं कमलोपशोभितं जिन !, वायेय ! मुखं तवाश्चितम् । सकलं कमलेन निन्दितः, कथमेषोऽनुकरोतु शीतगुः ॥४॥ विदधाति सुधाऽतिशायिनी, तव वाणी बहुधा सुमेधसाम् । अजरामरतां सतां सती, विनिपीता तरसा रसाधिका ॥५॥ भृतकाममन्ततेजसं हतकामेन तथान्धकारिणा । अभवं च भवेन शम्भुना कथमेवोपमीमहे विभुम् ॥६॥ शुभभावनयाऽनया सततं सातिशयं निषेवते । जनता जिन ! तावकं पदं लभते सा तु कुतः परं पदम् ॥७॥ भवतो न नतो यदताररुचेरिह नामवशेन समेति शमम् । पथि संसुखमापतितोऽपि विभो ! वनदावभरो जलदेव यथा ॥८॥ तव नाम चिरं परिचिन्तयतो न भुजानुमतं गजतोऽभिभवः । न च किश्चिदथापि च पञ्चमुखादपि संभवतीह भयं भविनः ॥९॥ अहिनाऽपि हि नामजपादपि ते कुपितेन समापतताऽपि सता । भविनामथ नाथ ! भयं न भवेदिह माहमहाविषदोपहर ! ॥१०॥
For Private And Personal Use Only