________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२] શ્રી જૈન સત્ય પ્રકાશ
[१५ अपरे च परेतपिशाचमहोरगभूतगणा अपि भीतिकराः। न भवन्ति भवन्तमनन्तशिवं सुचिरं शुचि चेतसि चिन्तयताम् ॥११॥ तवैवाभिधानकजापादपापा अपाये पयःपूररूपेऽपि केऽपि । न सीदन्ति नूनं महापोतलामादिनाऽमी परं पारमासादयन्ति ॥१२॥ यदीयानुभावेन भूयो जनानां भृशं जायते भूरिरोगादिशान्तिः । महावारिवाहागमेनेव नानावनानामिहानेकदावोपशान्तिः ॥१३॥ दलिताखिलमोहमहातमसं तमसङ्गमभङ्गुरशान्तरसम् । विनुवामि ममामितकामितदं जिननाथमथो मदितोरुमदम् ॥१४॥ जय जय जिनपुङ्गव ! देवदेव ! सुरदानवमानवविहितसेव !। शिवदाशयसंशयतिमिरपूरपूरितजनमानसगगनमूर ! ॥१५॥ कुमुदाकरशीतलकलविशाल ! शमपूरितरितदूरितजाल !। करुणावरुणालयलयनिधान ! जय जय शिवसाधनसावधान ! ॥१६॥ विपुलामलगुणगणमणिसुखानि समहे समतामय ! कुरु सुखानि । सुवशीकृतशान्तरसातिरेक ! जगदीश ! विकासितवरविवेक ! ॥१७॥ कलिना मलिनीकृतजीवलोकमखिलं विमलीकुरु वीतशोक !। सुन्दरवामोदर सरसिहंस ! जय भव-भय-भञ्जन जिनावतंस! ॥१८॥ कमठऋषिरोषबहुदोषविषभेषजं विषमतरमानतरुभञ्जनेऽवरगजम् । कुटिलमायातागहनदहने दवं भूरि गुरुलोभगिरिभेदभिदुरं नवम् ॥१९॥ बहुलभावेन भुजगेश ! संसेवितं तं जिनाधीशमनिशं सुरैरश्चितम् । एवमानौमि महनीयमहिमाऽऽलयं केवलालोकपरितुलितजगदाशयम् ॥२०॥ इत्येवं तव देव ! संस्तवमसंयुक्ताक्षरं सुन्दरं
कृत्वा मोक्षमनन्तकर्मभिरसंयुक्तं सदैवाक्षरम् । याचे पार्श्वजिनेश ! चेतसि धृतानान्तार्थचिन्तामणे !
पूज्यश्रीजिनहर्षमरिविदितः त्रैलोक्यचूडामणे ! ॥२१॥ इति श्रीपार्श्वनाथस्तवनं केवलाक्षरमयम् । सं० १६४४ वर्षे । આ સ્તવન પાટણની પૂજ્ય મુનિરાજ શ્રી પુણ્યવિજ્યજી મહારાજની એક હસ્તલિખિત प्रत ५२था उतार्यु छे. स्तनना छने 'केवलाक्षरभयम् ' सभ्युं छे तेने। अथ छे । આ સ્તવનમાં કયાંય પણ જોડાક્ષર નથી આવતો. અનુસ્વારના બદલે જોડાક્ષર જરૂર આવે છે પણ તે જોડાક્ષર ન ગણાય. આ સ્તવનની આ વિશેષતા છે,
For Private And Personal Use Only