Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil

View full book text
Previous | Next

Page 58
________________ ज्ञानसारे इन्द्रियजयाष्टकम् JERJEWERESEASESIGESewala तस्याश्चोत्कृष्टरूपतयाऽऽकृष्टचेतसस्तरुणाः साध्वीप्रतिश्रये प्रविश्य तो निरीक्षावके / ततस्तदुपद्रवः कथितस्तयोमहत्तरया पश्चात्तामेकाहे निक्षिप्य रक्षिता / ताभ्यां सह ते तरुणा योद्धुमारब्धाः / ततो “मनिमित्तोऽयं मुन्योः क्लेश इति धिग्मामनर्थकारिशरीरम्" इति वैराग्यात्प्रतिपन्नं तयाऽनशनम् / ततोऽतिक्षीणशरीरस्वात्संजातमोहातिरेकान्मृतेति मत्वा परिष्ठापिता ताभ्याम् / शीतपवनसंपर्कात्मत्यागतप्राणा दृष्टा सार्थवाहेन / स्त्रीरत्नमेतदिति बुद्धयाऽभ्यङ्गोद्वर्तनौषधादिक्रमेण स तां पुनर्नवां चक्रे / तयाऽपि तथाभवितव्यतया कर्मवैचित्र्यादनुपकृतवत्सलोऽयमिति मत्वा सर्व प्रतिपेदे / स्थिता कियन्तमपि कालम् / अन्यदा दृष्टौ भ्रातरौ, पतिता तचरणेषु, निवेदितो वृत्तान्तः / तभ्यां विमोच्य सार्थवाहात्पुनरिति शिक्षिता, यतः सरित्सहस्रदुष्पूर-समुद्रोदरसोदरः / तृप्तिमान्नेन्द्रियग्रामो, भव तृप्तोऽन्तरात्मना // 1 // हे भव्य ! अयमिन्द्रियप्रामः तृप्तिमान भवति, कदापि तृप्ति न लभते, यस्मादमुक्तेष्वीहा मुञ्जानेषु मग्नता मुक्तपूर्वेषु स्मरणमिति त्रैकालिकी अशुद्धा प्रवृत्तिरिन्द्रियार्थरक्तस्य, तेन न तृप्तिः / कीदृश इन्द्रियप्रामः / सरितां सहस्रेण दुष्पूर्यते सहस्रशो नदीपूरैः दुष्पूरोऽपूर्यमाणो यः समुद्रस्तस्य सोदरः सदृशः / इन्द्रियाभिलाषस्तु शमसंतोषेणैव पूर्यते तदर्थ हितोक्तिरियम्-हे उत्तम ! अन्तरात्मना आत्मनोऽन्तर्गतेन स्वरूपेण तृप्तो भव / अयं हि जीवः संसारचक्रकोडीभूतपरभावानात्मतया मन्यमानः शरीरमेवात्मा इति बहिर्भावे कृतात्मबुद्धिः बारात्मा सन् अनन्तपुद्गलपरावर्तकालं मोहावगुण्डितः पर्यटति, स एव निसर्गाधिगमाभ्यां स्वरूपपररूपविभजनेन अहं शुद्ध इति कृतनिश्चयः सम्यग्रत्नत्रयात्मकमात्मानमात्मत्वेन जानन् रागादीन परत्वेन निर्धारयन् सम्यगन्तरात्मोच्यते, स एव सम्यग्दर्शनलाभकाले निर्धारितस्वरूपपूर्णतागप्तौ परमात्मा भवति, अत इन्द्रियविषयत्यागो युक्तः / पुरः पुरः स्फुरत्तष्णा-मृगतृष्णानुकारिषु / इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जडाः // 2 ___ मूर्खा ज्ञानामृतं त्यक्त्वा इन्द्रियार्थेषु रूपरसगन्धस्पर्शशब्दलक्षणेषु धावन्ति आतुरा भवन्ति तदर्थ यत्नदम्भवाणिज्यमुण्डनादि कर्म कुर्वन्ति कोदृशेषु इन्द्रियार्थेषु ? पुरः पुरः अग्रेड स्फुरन्ती या तृष्णा भोगपिपासा तया मृगतृष्णा जलभ्रान्तिस्तत्सदृशेषु / इन्द्रिय // 42 //

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184