Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil
View full book text
________________ ज्ञानसारे परिप्रहाष्टकम् CCA SIGEAEGSCOCAGO वनैकप्रदेशेऽनगार एको धर्मध्यानं ध्यायति, तन्मुनेः पार्श्वमागतान्मृगान् हन्ति / अथ राजा तत्र मुनिदर्शने जाते सति भीतः साधु प्रणम्य वक्ति-"भगवन् ! अत्र मृगवघे ममापराधं क्षमस्व / " अथ मौनेन स ध्यानमाश्रितो राजानं न प्रतिवक्ति, ततो नृपो भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यति ? इति त्रस्तः पुनः प्रोचे-"संजयनामाऽहं राजाऽस्मि, तस्मान्मां संभाषय, स्वं तु क्रुद्धस्तेजसा नरकोटिसमूहं दहेः / " इत्थं तेनोक्ते मुनिराह-“हे पार्थिव ! अभयं तव, नतु कोऽपि त्वां दहति" इत्थं समाश्वास्योपदिशति-"अनित्ये जीवलोके किं हिंसायां प्रसज्जसि? नरकहेतुरियं कर्तुं नोचिता, यथा तब मृत्युभयं तथाऽन्येषामपीति परलोकहितं कार्य कुरु / तथा च दाराः सुता देहश्च जीवन्तमनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं तु नानुव्रजन्ति, ते पुनः कथं सहायाः स्युः ? इत्यतः कृतघ्नेषु नास्था कार्या, सर्वमपि परिग्रह विमुच्य तपोऽङ्गीकुरु / " इत्यादिधर्म श्रुत्वा राज्यं त्यक्त्वा गर्दभालेर्मुनेः समीपे प्रव्रज्यां प्राप्य सामाचारीतः अप्रतिबद्धतया विहरन् कश्चित्सन्निवेशमगाव / तत्रैकः कश्चिन्मुनि वैमानिकाच्च्युत्वाऽत्र क्षत्रियनृपो जातः, कुतोऽपि निमित्ताज्जातिस्मृस्या विरक्तः प्रव्रज्य विरहन् तं संयतमुनि वीक्ष्य तत्परीक्षाक्षमिदमाचख्यौ-"किं नाम ? किं गोत्रं ? कस्मा अर्थाय प्रबजितः ?" इति श्रुत्वा संयत उवाच-"संजय इत्याहा मम, गौतमगोत्रोऽहं, गर्दभालिनामाचार्यैर्जीवघातान्निवर्तितोऽहं, तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं, ततस्तदर्थे प्रबजितोऽस्मि / " पुन. क्षत्रियमुनिस्तद्गुणाकृष्टचेता अपृष्टोऽपि इदमाह-"क्रियादिवादिनः सर्वे एकांशग्रहणेन न यथार्थे वस्तुस्वरूपकलनां कुर्वन्ति, ततोऽसत्प्ररूपणां हित्वा सद्धर्मशीलनं भवता कार्यम् / लिङ्गिनामपि जैनवेषविडम्बकानामपि प्रलापा असम्बद्धवचनव्यूहाः किं न श्रूयन्ते ? अपि तु अयन्त एव / परिग्रह एव प्रहस्तस्यावेशात / प्रलापाः कथंभूताः ? विकृता-विकारमयाः तथा उत्सूत्रवचनरजोऽवगुण्डिताः / एवं हि परिप्रहाभिलाषमग्नाः ज्ञानपूजनाद्युपदेशेन परिप्रहमेलनासक्ता उत्सूत्रं वदन्ति / GENEReleacua // 123 // C

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184