Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil
View full book text
________________ ज्ञानसारे अनुभवाष्टकम् DISTREDOTOVO रूपोऽनुभवः पण्डितैः दृष्टः, मति-श्रुतज्ञानोत्तरभावी केवलज्ञानादव्यवहितपूर्वभावी प्रकाशः अनुभवपदेनोच्यते, तस्त द्वितीयं नाम || प्रतिभाज्ञानमस्ति // 1 // व्यापारः सर्वशास्त्राणां, दिग्प्रदर्शन एव हि / पारं तु प्रापयत्येको,-ऽनुभवो भववारिधेः // 2 // व्याख्या-सर्वेषां शास्त्राणां व्यापारः उपायप्रवर्तनदिशाज्ञापनमेवास्ति, किन्तु अनुभव एवैकः संसारसमुद्रस्य पारं प्रापयति // 2 // // अथ षड्विंशेऽनुभवाष्टके आभीरीवञ्चकवणिक्कथानकम् // 26 // क्वापि नगर एको वणिक, सच हट्टस्थितः प्रतिवासरं व्यापारं चक्रे / अन्यदाऽत्यर्थ सरलाऽऽभीर्येका तस्यापणे रूपकद्वयमादाय कर्पासार्थमुपागमत् / कर्पासोऽधुना महर्योऽस्तीत्युक्त्वा स नैगम एकरूपकस्य कसं तोलयित्वा तस्यै ददौ / सा तु सरला द्विरर्पणात द्वयो रूपकयोर्मम कर्पासो दत्त इति ज्ञात्वा तमादाय शीघ्रं ययौ / ___अथ स वणिग्दध्यो-"रूपकोऽयमेको मया मुधा लेभे, तदद्यैनमुपमुळे" इति ध्यात्वा रूपकस्य घृतखण्डशर्करागोधुमादिक लात्वा गृहे प्रेषीद, भार्यया घृतपूरानचीकरत् / तया च घृतपूरेषु कृतेषु तज्जामाता मित्रयुतः केनचित्कार्येण पुरान्तरादागतः / ततः सा दृष्ट्वा तघृतपूरैः समित्रं तमभोजयत् / यतः स्त्रीणां जामाताऽतीव वल्लभः / तस्मिन्गते च स वणिक् भोजनाय गृहं गतः स्वाभाविक भक्तं वीक्ष्य कामिनी पप्रच्छ-"हे नितम्बिनि ! कुतो नाद्य घृतपूरास्त्वया कृताः ?" रमणी जगाद-"स्वामिन् ! ते तु कृताः, परं सत्पात्रे निहिताः, यतःकिंतु हेतोः कुतोऽप्यत्रा-यातोऽस्मदुहितुः पतिः / समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः // 1 // " // 125 // COCACCIATACADA

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184