________________ ज्ञानसारे अनुभवाष्टकम् DISTREDOTOVO रूपोऽनुभवः पण्डितैः दृष्टः, मति-श्रुतज्ञानोत्तरभावी केवलज्ञानादव्यवहितपूर्वभावी प्रकाशः अनुभवपदेनोच्यते, तस्त द्वितीयं नाम || प्रतिभाज्ञानमस्ति // 1 // व्यापारः सर्वशास्त्राणां, दिग्प्रदर्शन एव हि / पारं तु प्रापयत्येको,-ऽनुभवो भववारिधेः // 2 // व्याख्या-सर्वेषां शास्त्राणां व्यापारः उपायप्रवर्तनदिशाज्ञापनमेवास्ति, किन्तु अनुभव एवैकः संसारसमुद्रस्य पारं प्रापयति // 2 // // अथ षड्विंशेऽनुभवाष्टके आभीरीवञ्चकवणिक्कथानकम् // 26 // क्वापि नगर एको वणिक, सच हट्टस्थितः प्रतिवासरं व्यापारं चक्रे / अन्यदाऽत्यर्थ सरलाऽऽभीर्येका तस्यापणे रूपकद्वयमादाय कर्पासार्थमुपागमत् / कर्पासोऽधुना महर्योऽस्तीत्युक्त्वा स नैगम एकरूपकस्य कसं तोलयित्वा तस्यै ददौ / सा तु सरला द्विरर्पणात द्वयो रूपकयोर्मम कर्पासो दत्त इति ज्ञात्वा तमादाय शीघ्रं ययौ / ___अथ स वणिग्दध्यो-"रूपकोऽयमेको मया मुधा लेभे, तदद्यैनमुपमुळे" इति ध्यात्वा रूपकस्य घृतखण्डशर्करागोधुमादिक लात्वा गृहे प्रेषीद, भार्यया घृतपूरानचीकरत् / तया च घृतपूरेषु कृतेषु तज्जामाता मित्रयुतः केनचित्कार्येण पुरान्तरादागतः / ततः सा दृष्ट्वा तघृतपूरैः समित्रं तमभोजयत् / यतः स्त्रीणां जामाताऽतीव वल्लभः / तस्मिन्गते च स वणिक् भोजनाय गृहं गतः स्वाभाविक भक्तं वीक्ष्य कामिनी पप्रच्छ-"हे नितम्बिनि ! कुतो नाद्य घृतपूरास्त्वया कृताः ?" रमणी जगाद-"स्वामिन् ! ते तु कृताः, परं सत्पात्रे निहिताः, यतःकिंतु हेतोः कुतोऽप्यत्रा-यातोऽस्मदुहितुः पतिः / समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः // 1 // " // 125 // COCACCIATACADA