Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil
View full book text
________________ ज्ञानसारे अनुभवा DESIGNECOCACOCO तन्निशम्योत्पन्नविषादो दध्यो-"मया परार्थमाभीरी वराकी वृथा वञ्चिता, तद्विप्रतारणापा मयैव बद्धं, घृतपूरास्तु अन्यैजग्धाः / यतः-. पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् / विपाकोऽस्य तु कालेन, स्वयमेवोपभुज्यते // 1.' इति ध्यात्वा बाह्मभूमौ गत्वा देहचिन्तां विधाय सूर्यतापतप्तस्तरोस्तले विशश्राम, तदैकं साधु भिक्षायै यान्तं वीक्ष्येवं स्माह"भगवन् ! एहि, विश्रस्य क्षणं मद्वार्ता शृणु / " मुनिर्ज्ञानी जगौ-"स्वकार्ये मया द्रुतं गम्यं ततो नाहं स्थास्याम्यत्र " वणिक्योचेऽन्यकार्येणा-प्यायें कि कोऽपि गच्छति / यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् / / 1 / / उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः / भार्याद्यर्थ क्लिश्यमानः, त्वमेवात्र निदर्शनम् // 2 // इत्येकेन वाक्येन स बुद्धः साधु प्राह-"स्वामिन् ! यूयं तपः-पारणादिकृत्यं कुरुत, पश्चादहं समेष्यामि / " ततो मुनिनिर्दोषाहारेण देहभाटकं दत्त्वा खाध्यायं व्यधात्, तदा स तदन्ति के गत्वा धर्ममश्रौषीवअतीन्द्रियं परं ब्रह्म, विशुद्धानुभवं विना। शास्त्रयुक्तिशतेनापि, न गम्यं यद्बुधा जगुः // 3 // व्याख्या-इन्द्रियाणामगोचरं सर्वोपाधिविकलं शुद्धं ब्रह्म-आत्मा विशेषविशुद्धानुभवं विना शास्त्रस्य शतशः युक्तिभिरपि. | ज्ञातुं नैव शक्यते बुधैः कथितं यत्| ज्ञायेरन हेतुवादेन, पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः // 4 // व्याख्या-यदि युक्तिशास्त्रेणातीन्द्रियाणां धर्मास्तिकायादिपदार्थानां हस्तस्थितामलकोनामिव ज्ञानं सुशक्यं स्यातर्हि एतावत्कालपर्यन्तमतीन्द्रियपदार्थानां पण्डितैः असन्दिग्धाभ्रान्तनिश्चयः कृतः स्यात् / आत्माऽपि अतीन्द्रियोऽस्ति, तस्य पर्याया | NICODICHAESACRED COLORS // 126 //

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184