Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil
View full book text
________________ शानसारे योगाष्टकम् Vocacuadacracudaae भ्रमणग्रहात पुद्गलभोगमग्नानां न भवत्ययमभिप्रायः, यतोऽस्माकं मोक्षः साध्योऽस्ति, स च गुरुस्मरणतत्त्वजिज्ञासादियोगेन स्वरूपनिर्मल निःसंगं परमानन्दमयं परमात्मानं संस्मृत्य तत्कथाश्रवणप्रीत्यादिकं करोति, स च परम्परया सिद्धयोगी स्यात् / न हि मरुदेवावत्सर्वेषामल्पप्रयासेन सिद्धिः, तस्या हि अल्पाशातनादिदोषकारकत्वेन निःप्रयासा सिद्धिः, अन्यजीवानां चिराशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति / तत्र स्थानं चन्दनक-कायोत्सर्ग-शरीरावस्थानमासनमुद्रादिकं च / / वर्णः अक्षरः शुद्धोचाररूपः / 2 / अर्थो वाक्यस्य भावार्थः / 3 / आलम्बनं वाच्ये पदार्थेऽहत्स्वरूपे उपयोगस्यैकत्वम् / 4 / एकाग्रता शुद्धस्वरूपे निश्चलत्वम् // 5 // यावध्यानकत्वं न भवति, तावन्यासमुद्रावर्णशुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणादिकमुपयोगचापत्यवारणार्थमवश्यं करणीयं महाहितकरं सर्वजीवानां, तेन स्थानवर्णादिक्रमेण तत्त्वप्राप्तिरिति / अथ योगपञ्चके बाझान्तरङ्गसाधकत्वमुपदिशति- . कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः / विरतेष्वेव नियमा-द्वीजमात्र परेष्वपि // 2 // ___ व्याख्या-तेषु पञ्चसु योगेषु द्वौ कर्मयोगौ त्रयो ज्ञानयोगा: सन्ति इति ज्ञानिनो जनाः जानन्ति, एते पञ्च योगा: विरतेषु निश्चयाद् भवन्ति अन्यमार्गानुसारिषु केवलं बीजरूपं भवति // 2 // तत्र मोक्षसाधनयोगे स्थानवर्णस्वरूपं कर्मयोगद्वयं बाहयम्, अन्यद्योगत्रयमान्तरीयकम् / एष पञ्चप्रकारो योगो विरतेषु देशविरतसर्वविरतेषु नियमाद्भवति / अत्र योगपञ्चकं चापल्यत्यागहेतुकमपरेषु मार्गानुसारिप्रमुखेषु बीजमात्रं भवति / ____ इत्यादि धर्मोपदेशं श्रुत्वा संसारासारतां मत्वा पुरोहितकुम्बौ द्वावपि धर्म कृत्वा स्वर्ग गतौ, कमान्मुक्तिं यास्यतः / स्थानादयः पञ्चविधाः सुयोगाः, मोक्षस्य प्राप्त्यर्थमिहोदितास्ते / धृतास्त्रिशुद्ध्योज्जितसाधुनाऽन्यः,पूरणादरस्तेषु तथा विधेयः॥१॥ Valevalaaeeme // 13 //

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184