________________ शानसारे योगाष्टकम् Vocacuadacracudaae भ्रमणग्रहात पुद्गलभोगमग्नानां न भवत्ययमभिप्रायः, यतोऽस्माकं मोक्षः साध्योऽस्ति, स च गुरुस्मरणतत्त्वजिज्ञासादियोगेन स्वरूपनिर्मल निःसंगं परमानन्दमयं परमात्मानं संस्मृत्य तत्कथाश्रवणप्रीत्यादिकं करोति, स च परम्परया सिद्धयोगी स्यात् / न हि मरुदेवावत्सर्वेषामल्पप्रयासेन सिद्धिः, तस्या हि अल्पाशातनादिदोषकारकत्वेन निःप्रयासा सिद्धिः, अन्यजीवानां चिराशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति / तत्र स्थानं चन्दनक-कायोत्सर्ग-शरीरावस्थानमासनमुद्रादिकं च / / वर्णः अक्षरः शुद्धोचाररूपः / 2 / अर्थो वाक्यस्य भावार्थः / 3 / आलम्बनं वाच्ये पदार्थेऽहत्स्वरूपे उपयोगस्यैकत्वम् / 4 / एकाग्रता शुद्धस्वरूपे निश्चलत्वम् // 5 // यावध्यानकत्वं न भवति, तावन्यासमुद्रावर्णशुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणादिकमुपयोगचापत्यवारणार्थमवश्यं करणीयं महाहितकरं सर्वजीवानां, तेन स्थानवर्णादिक्रमेण तत्त्वप्राप्तिरिति / अथ योगपञ्चके बाझान्तरङ्गसाधकत्वमुपदिशति- . कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः / विरतेष्वेव नियमा-द्वीजमात्र परेष्वपि // 2 // ___ व्याख्या-तेषु पञ्चसु योगेषु द्वौ कर्मयोगौ त्रयो ज्ञानयोगा: सन्ति इति ज्ञानिनो जनाः जानन्ति, एते पञ्च योगा: विरतेषु निश्चयाद् भवन्ति अन्यमार्गानुसारिषु केवलं बीजरूपं भवति // 2 // तत्र मोक्षसाधनयोगे स्थानवर्णस्वरूपं कर्मयोगद्वयं बाहयम्, अन्यद्योगत्रयमान्तरीयकम् / एष पञ्चप्रकारो योगो विरतेषु देशविरतसर्वविरतेषु नियमाद्भवति / अत्र योगपञ्चकं चापल्यत्यागहेतुकमपरेषु मार्गानुसारिप्रमुखेषु बीजमात्रं भवति / ____ इत्यादि धर्मोपदेशं श्रुत्वा संसारासारतां मत्वा पुरोहितकुम्बौ द्वावपि धर्म कृत्वा स्वर्ग गतौ, कमान्मुक्तिं यास्यतः / स्थानादयः पञ्चविधाः सुयोगाः, मोक्षस्य प्राप्त्यर्थमिहोदितास्ते / धृतास्त्रिशुद्ध्योज्जितसाधुनाऽन्यः,पूरणादरस्तेषु तथा विधेयः॥१॥ Valevalaaeeme // 13 //