SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे योगाष्टकम् BASCUACACIOTTITOR a. विशामि" इति हक्कयन् चपेटयाऽऽहत्याध्यापकं मूमौ पातयामास / ततः कुपुत्र इति कृत्वा राज्ञा निष्कासितो देशात्तापसाश्रमे गतः / पर्यस्तिकां बध्वा मुनीनामग्र आसीनस्तापस: शिक्षितः-“हे महाभाग ! विनयं कुरु।" सोऽवक-"जटाजूटमस्तकभस्मलिप्ताङ्गेषु नग्नेषु को विनयः " / सद्यस्तैद्रे निष्कासितो रुष्टः प्राह-"अहं पितृराज्यं प्राप्य युष्मान् निग्रहीष्यामि" इति संलप्याने गच्छन् मागे सिंहं वीक्ष्य करकृतनिशितकरवालो दाहसंमुख एव गतवान् / सिंहेन भक्षितः खरो जातः / ततः करमः, ततः पुनरपि नन्दिपुरे पुरोहितस्यैव सुतो जातः / शैशवेऽपि चतुर्दशविद्यापारगो महाहकारवशान्मृत्वा तत्रैव पुरे गायनो डुम्बो जातः / पुरोहितस्तं दृष्ट्वा महास्नेहवान् जायते / इतश्च केवलज्ञानी तत्रागात् / केवली पृष्टः पुरोधसा-"ममाय डुम्बोऽतीव वल्लभः कथम ?" केवलिना पूर्वभवसम्बन्धः सर्वः प्रोक्तः / तच्छ्रुत्वा गायनोऽपि जातिस्मृति प्राप्य श्रीमत्केवलज्ञानिपरमात्मवचनश्रवणरसिकः पुनः स्वोद्धरणस्वरूपं पपच्छ / तदा श्रीसर्वज्ञेनानेकस्याद्वादपक्षसमन्वित्रिकरणयोगशुद्धिकरणस्वरूपं प्रकाशितम् / मोक्षयोगविचारो निरूपितः, तथाहिमोक्षेण योजनाद्योगः, सर्वोऽप्याचार इष्यते / विशिष्य स्थानवार्था-लम्बनैकाग्रयगोचरः॥१॥ व्याख्या-मोक्षेण सहात्मनो योजनाद्योगशब्दस्यार्थः निखिलोऽप्याचारो हि इष्ट एव अस्ति विशिष्य-सामान्यशब्द विशेषपरक मत्वा स्थानं मुद्रा आसनादिकं वर्णः अक्षरं शब्दः वाच्यार्थः कायोत्सर्गाद्यालम्बनमेकाग्रता-सिद्धस्मरणमेतत्पश्चविषयकोऽयमाचारः स योग्यः कथ्यते // 1 // / अत्र मिथ्यात्वादिहेतुगतमनोवाक्कायरूपं योगत्रयं, तच्च कर्मवृद्धिहेतुत्वान्न प्रामु, किन्तु मोक्षसाधनहेतुभूतं प्राझम् / सकलकर्मक्षयो मोक्षः, तेन योजनाद्योग उच्यते, स च सर्वोऽप्याचारो जिनशासनोक्तश्चरणसप्ततिकरणसप्ततिरूपो मोक्षोपायत्वाद्योग इष्यते / तत्र विशेषेण स्थान' वर्णार्थी'लम्ब नकाम तेति पञ्चप्रकारो योगो मोक्षोपायहेतुर्मतः इति / अनेनैतदुक्तम्-अनादिपरभावासकानां भव बारबारबारमारनाamudaewa // 130 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy