________________ झानसारे // इति षडविशेऽनुभवाष्टके आमीरीवश्चकवणिक्कथा // योगाष्टकम् अधिगत्याखिलं शब्द-ब्रह्मशास्त्रदृशा मुनिः / स्वसंवेद्यं परं ब्रह्मा-नुभवेनाधिगच्छति // 8 // CONSOREDDESSES .... व्याख्या-मुनिः शास्त्रदृष्टया सकलं शब्दब्रह्म ज्ञात्वा अनुभवेन स्वप्रकाशं परब्रम जानानि // 8 // // इति षड्विंशतितममनुभवाष्टकम् // 卐 // अथ सप्तविंशतितमं योगाष्टकम् // अथ सप्तविंशे योगाष्टके उज्झितमुनिकथानकम् // 27 // मनोवाक्काययोगानां, चापन्यं दुःखदं मतम् / तत्त्यागान्मोक्षयोगानां, प्राप्तिः स्यादुज्झनादिवत् // 1 // नन्दिपुरे रत्नशेखरो मूपः / रत्नमत्याद्याः पल्योऽभवन् / तयोरपत्यानि मृतवत्सादोषेण न जीवन्ति / अनेकैरुपायैरन्यदा पुत्रो जातः, सोऽपि मृत इति कृत्वा उत्करटिकायामुज्झितः, देववशान मृतः, पुनः पश्चाद्गृहोतः, तस्योज्झितकुमार इति नाम स्थापितं / यौवनं प्राप्तः, परं मनसाऽत्यन्तमहंकारवान् , कायेन कस्यापि प्रोवामपि न नमयति, वचसा दुर्भाषो, जगत्तणं मन्यमानः स्तम्भ इव मातापित्रोरपि न नमति स्म / अन्यदा लेखशालायां पठन् गुरुमवक-"रे त्वमस्मजनपदजनताप्रदत्तकणाहार उचासन उपविशसि अहं नीचासन उप 205CDahalaaelaetap // 129 //