________________ शानसारे अनुभवा DESODDSSTICAS व्याख्या-अयमनुभवो न सुषुप्तिदशा यतः स मोहरहितोऽस्ति, सुषुप्तिस्तु निर्विकल्पा मोहसहिताऽस्ति, स पुनः स्वप्नदशा वा जाग्रदशा नास्ति, यतो हि-कल्पनारूपशिल्पस्याभावोऽस्ति, स्वापजाबद्दशात् कल्पनारूपाऽस्ति, अतो अनुभव एव चतुर्थी दशा अवस्थाऽस्ति // 7 // दशाश्वतत्रः, तत्र बहुशयनरूपा मिथ्यात्वस्थानां, शयनावस्था सम्यग्दृशा, जागराऽप्रमत्तमुनीनां, तुर्या चोत्तरोत्तरा सयोगिकेवलिना, पुनर्ग्रन्थान्तरे सपप्तिस्त निद्रावर्णितचेतसा. साऽनुभववतो न भवेत, कस्मात् ? अनुभवे मोहरहितत्वात् , तथा स्वापदशा जागराऽपि च न, एतद्दशाद्वयं कल्पनोपेतम् , अनुभवे कल्पना विकल्पवती चेतना तस्याः शिल्पं विज्ञानं तस्य विश्रान्तिरभावः तस्याः, अतः सम्पूर्णनयपक्षेऽनुभवे तुर्या एव दशा वाच्या / ___ इत्यादि श्रीगुरूपदेशात्प्रबुद्धो वणिग्गुरु स्माह-“हे विभो ! बन्धूनापृच्छय दीक्षायै यावदहमायामि तावत्पूज्यैरिह स्थेयम्" इत्युक्त्वा गृहे गत्वा स्वजनान् जायां चेति जगाद-'हट्टव्यापाराल्लाभः स्वल्प एव लभ्यते, अतो विदेशवाणिज्यं प्राज्यलाभार्थेऽहं करिष्ये / सार्थवाही द्वावत्र विद्येते, तत्रैकः स्वधनं दत्त्वा ईप्सितं पुरं नयति उपार्जितवित्तमध्याच स्वयं भागं न गृह्णाति, द्वितीयस्तु निजं वित्तं नैव प्रदत्ते, सेवितः सन् पूर्वार्जितं सकलं लुम्पति / तस्मायूयमादिशत केन सार्थनाथेन साकमहं व्रजामि ?" स्वजना. प्रोचुः-"भवान् प्रथमेन साकं यातु" ततः स बन्धुभिद्रुतं तत्रोद्याने ययौ / सार्थवाहः क्वास्ति ? इति तैः पृष्टः स एवमवोच"वृक्षाधः स्थितः सिद्धिपुर्याः सार्थवाहः, एष साधुनिजं धर्मधनं दत्त्वा प्रत्यहं व्यापारं कारयति, स्वोपार्जितमध्येऽशमात्रं न कदापि गृहाति, तदनेन सह मुक्तिपुरी कामितां यास्यामि / अन्यः सार्थपस्तु जायादिस्वजनात्मको विज्ञेयः, स हि प्राच्य धर्मधनं सर्व हन्ति नवं च न दत्ते / किं च युष्माभिरेव सानन्दं प्रोक्तं यदायेन सह ब्रज तस्माद्वन्धुसम्बन्धं मुक्त्वा एनं साधुमहं श्रथामि / " इत्युदीर्य स वणिग्मुनिपावें, बन्धुमोहमपहाय महात्मा / प्राप सानुभवधर्ममुदारं, सौख्यमत्र च परत्र च लेभे // 1 // ACASACASACASACA // 128 //