SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे इन्द्रियजयाष्टकम् JERJEWERESEASESIGESewala तस्याश्चोत्कृष्टरूपतयाऽऽकृष्टचेतसस्तरुणाः साध्वीप्रतिश्रये प्रविश्य तो निरीक्षावके / ततस्तदुपद्रवः कथितस्तयोमहत्तरया पश्चात्तामेकाहे निक्षिप्य रक्षिता / ताभ्यां सह ते तरुणा योद्धुमारब्धाः / ततो “मनिमित्तोऽयं मुन्योः क्लेश इति धिग्मामनर्थकारिशरीरम्" इति वैराग्यात्प्रतिपन्नं तयाऽनशनम् / ततोऽतिक्षीणशरीरस्वात्संजातमोहातिरेकान्मृतेति मत्वा परिष्ठापिता ताभ्याम् / शीतपवनसंपर्कात्मत्यागतप्राणा दृष्टा सार्थवाहेन / स्त्रीरत्नमेतदिति बुद्धयाऽभ्यङ्गोद्वर्तनौषधादिक्रमेण स तां पुनर्नवां चक्रे / तयाऽपि तथाभवितव्यतया कर्मवैचित्र्यादनुपकृतवत्सलोऽयमिति मत्वा सर्व प्रतिपेदे / स्थिता कियन्तमपि कालम् / अन्यदा दृष्टौ भ्रातरौ, पतिता तचरणेषु, निवेदितो वृत्तान्तः / तभ्यां विमोच्य सार्थवाहात्पुनरिति शिक्षिता, यतः सरित्सहस्रदुष्पूर-समुद्रोदरसोदरः / तृप्तिमान्नेन्द्रियग्रामो, भव तृप्तोऽन्तरात्मना // 1 // हे भव्य ! अयमिन्द्रियप्रामः तृप्तिमान भवति, कदापि तृप्ति न लभते, यस्मादमुक्तेष्वीहा मुञ्जानेषु मग्नता मुक्तपूर्वेषु स्मरणमिति त्रैकालिकी अशुद्धा प्रवृत्तिरिन्द्रियार्थरक्तस्य, तेन न तृप्तिः / कीदृश इन्द्रियप्रामः / सरितां सहस्रेण दुष्पूर्यते सहस्रशो नदीपूरैः दुष्पूरोऽपूर्यमाणो यः समुद्रस्तस्य सोदरः सदृशः / इन्द्रियाभिलाषस्तु शमसंतोषेणैव पूर्यते तदर्थ हितोक्तिरियम्-हे उत्तम ! अन्तरात्मना आत्मनोऽन्तर्गतेन स्वरूपेण तृप्तो भव / अयं हि जीवः संसारचक्रकोडीभूतपरभावानात्मतया मन्यमानः शरीरमेवात्मा इति बहिर्भावे कृतात्मबुद्धिः बारात्मा सन् अनन्तपुद्गलपरावर्तकालं मोहावगुण्डितः पर्यटति, स एव निसर्गाधिगमाभ्यां स्वरूपपररूपविभजनेन अहं शुद्ध इति कृतनिश्चयः सम्यग्रत्नत्रयात्मकमात्मानमात्मत्वेन जानन् रागादीन परत्वेन निर्धारयन् सम्यगन्तरात्मोच्यते, स एव सम्यग्दर्शनलाभकाले निर्धारितस्वरूपपूर्णतागप्तौ परमात्मा भवति, अत इन्द्रियविषयत्यागो युक्तः / पुरः पुरः स्फुरत्तष्णा-मृगतृष्णानुकारिषु / इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जडाः // 2 ___ मूर्खा ज्ञानामृतं त्यक्त्वा इन्द्रियार्थेषु रूपरसगन्धस्पर्शशब्दलक्षणेषु धावन्ति आतुरा भवन्ति तदर्थ यत्नदम्भवाणिज्यमुण्डनादि कर्म कुर्वन्ति कोदृशेषु इन्द्रियार्थेषु ? पुरः पुरः अग्रेड स्फुरन्ती या तृष्णा भोगपिपासा तया मृगतृष्णा जलभ्रान्तिस्तत्सदृशेषु / इन्द्रिय // 42 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy