________________ ज्ञानसारे इन्द्रियजयाष्टकम् PENSERTENTISCOSINECIDO भोगा न सुखं, भ्रान्तिरेव तत्त्वविकलानाम् , यतः बारमणतं भुत्ता, बंता चत्ता य धोरपुरिसेहिं / ते भोगा पुण इच्छइ, भोत्तं तिण्डाउलो जीवो // 1 // अत एव महाचक्रधरा वासुदेवा मण्डलिकादयः कण्डरोकादयश्च विषयव्यामोहितचेतना नरके दीनावस्था प्राप्ताः / किंबहुना? मा कुरुवं मा कुरुध्वं विषयविश्वासम् / अहह पूर्वभवास्वादितसाम्यसुखस्मरणेन तृणीयन्ति अनुत्तरविमानसुखं लवसत्तमाः / इन्द्रादयोऽपि विषयत्यागेऽसमर्था लुठन्ति भूपीठे मुनीनां चरणकमलेषु / अतोऽनादिकालादनेकधा मुक्तविषया वारणीयाः, तत्संगोऽपि न स्मरणीयः पूर्वपरिचयः / निम्रन्थास्तु निवर्त्तयन्ति कालं वाचनादिना तत्त्वावलोकनेहादिषु / उक्तं च "निम्मलनिक्कलंकनिस्संगसिद्धसब्भावफासणा कइया" . इत्यादि ध्यानतत्परास्तिष्ठन्ति इत्युपदेशवाक्यं श्रुत्वा पुनः सुकुमारिका सा चारित्रं बभार, निर्मलमनसा तपो विधाय दिवमापेति / धीरेषु मुख्यः पुरुषेषु गण्यते, बद्धो न योऽभद्विविधाक्षरज्जुभिः। भ्रष्टापि ताम्यामचिरात्समुद्धृता, साऽचं समालोच्य ययौ दिवौकसम् // 1 // // इति सप्तमे इन्द्रियपराजयाष्टके सुकुमारिकार्याकथानकम् / गिरिमृत्नां धनं पश्यन्, धावतीन्द्रियमोहितः / अनादिनिधनं ज्ञान-धनं पावें न पश्यति // 5 // व्याख्या-इन्द्रियविषयेष्वासक्तो जीवः पर्वतमृत्तिको सुवर्णरजतादिधनरूपेण पश्यन् इतस्ततो धावति, किन्तु पार्थे स्थितमनायनन्तसत्ताविश्रान्तसत्तारूपेण स्थितं ज्ञानरूपं धनं नैव पश्यति // 5 // DECIDONDO // 43 //