SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे |जयाष्टकम् Ca DESKIETDERISASIETSCHE पुरः पुरः स्फुरत्तृष्णा-मृगतृष्णानुकारिषु / इन्द्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जडाः // 6 // || इन्द्रिय व्याख्या - अग्रे अग्रे वर्धमाना तृष्णा येषामस्ति ते जडाः मूर्खाः ज्ञानरूपामृतं त्यक्त्वा मृगतृष्णासदृशेषु इन्द्रियार्थेषु / रूप-रस-गन्ध-स्पर्श-शब्दरूपेषु विषयेषु धावन्ति // 6 // पतङ्ग-भृङ्ग-मीने भ-सारङ्गा यान्ति दुर्दशाम् / एकैकेन्द्रियदोषाच्चे-दुष्टेस्तैः किं न पञ्चभिः // 7 // व्याख्या-यदि पतङ्गा-अग्न्यभिमुखं पतनशीला: जन्तुविशेषाः भृङ्गा-भ्रमराः इमाः हस्तिनः सारङ्गा भृगाः एते जीवाः | एकैकस्येन्द्रियस्य दोषवशात् मरणरूपां कुत्सितदां प्राप्नुवन्ति तईि दोषवद्भिः पञ्चेन्द्रियैः किं किं न स्यात् / विवेचनम्-पतङ्गाः रूपे आसक्ताः, मत्स्य रसे आसताः, भ्रमराः गन्धे आसक्ताः, गजाः स्पर्श आसक्ताः मृगाश्च शब्द आसक्ता भवन्ति / इमे प्राणिनः एकैकस्येन्द्रियस्य दोषादीनावस्थां यदि प्राप्नुवन्ति तर्हि येषां दोषवन्ति पञ्च इन्द्रियाणि भवन्ति तेषां तैरिन्द्रियः किं कि कष्टं न स्यात् // 7 // विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः। इन्द्रियों न जितोऽसौ, धीराणां धुरि गण्यते // 8 // व्याख्या-विवेकरूपं गजं हन्तुं सिंहसदृशैः समाधिरूपं धनमपहत चौरसमैरिन्द्रियों नरो न जितः स एव नरो धीरः पुरुषेषु मुख्यो गण्यते // 8 // // इति सप्तममिन्द्रियजयाष्टकम् // 卐 wacaacacaors // 44 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy