SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे त्यागाष्टकम् XIDEOSISENDING // अथाष्टमं त्यागाष्टकम् // संयतात्मा श्रये शुद्धोपयोगं पितरं निजम् / धृतिमम्बां च पितरौ, तन्मां विसृजतं ध्रुवम् // 1 // युष्माकं संगमोऽनादि-बन्धवोऽनियतात्मनाम् / ध्रुवैकरूपान् शीलादि-बन्धनित्यधुनाश्रये॥२॥ ___ (युग्मम् ) व्याख्या-निश्चयनयात कर्त्तमारब्धवान् स कृतवान् इतिबदहं संयमाभिमुखं प्रस्थितः शुद्धोपयोगम्-रागद्वेषरहितमात्मज्ञानं स्वकं जनक-पितरं वा, धृतिम्-आत्मरति मातरमाश्रये तर्हि हे मातापितरौ मामवश्यं त्यजतम् / हे बान्धवाः कदाचित्शत्रुर्वन्धुः कदाचिद्वन्धुः शत्रुभवति इति अनिश्चितात्मनां युष्माकं संगमः-संमेलनम् अनादिरस्ति, ध्रुवमविचलितमेकं रूपं -स्वरूपं येषां तान् शील-सत्य-शम-दम-सन्तोषादीन् बन्धून् अविचलितत्वात्साम्प्रतमाश्रये // 12 // कान्ता मे समतेवेका, ज्ञातयो मे समक्रियाः। बाह्यवर्गमिति त्यक्त्वा, धर्मसंन्यासवान् भवेत्॥३॥ व्याख्या-मम समतेवैका स्त्री अस्ति, अन्या स्त्री नास्ति / समानाचारवन्तः साधव एव मम सम्बन्धिनः सन्ति, अन्यसम्बन्धिनां किञ्चिदपि मे प्रयोजनं नास्ति / इत्थं निश्चयभावेन बाह्यपरिवारान त्यक्त्वा गृहस्थसमृद्धिप्रमुखौदयिकमावस्य धर्मसंन्यासवान् स्यागवान् भवेत् अर्थात् प्रौदयिकभावं त्यक्त्वा क्षयोपशमवान् स्यात् / अयमतात्त्विको धर्मसंन्यासः कथ्यते, तासिकधर्मसंन्यासस्तु क्षपकश्रेण्याम् अष्टमे गुणस्थानके भवेत्, कथितं यत् द्वितीया CONSENSEIGENBERSEBERSICHE // 45 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy