SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे त्यागाष्टकम् GEsewaelaeacuasala पूर्वकरणे प्रथमस्ताविको भवेत् प्रथमापूर्वकरणं सम्यक्त्वलामस्य, द्वितीयापूर्वकरणमष्टमगुणस्थानकम्य ज्ञेयं तत्र प्रथमोक्तः सामध्ययोगस्य प्रथमो भेदः धर्मसंन्यासः तात्त्विको भवेदित्थमेव च योगदृष्टि समुच्चयग्रन्थे निरूपितमौदयिकभावधर्मत्यागस्वरूप अतात्विको धर्मसंन्यासः प्रव्रज्यासमयेऽपि भवति // 3 // धर्मास्त्याज्याः सुसंगोत्थाः, क्षायोपशमिका अपि / प्राप्य चन्दनगन्धाभ, धर्मसन्यासमुत्तमम् // 4 // ___ व्याख्या-चन्दनसुरभिसदृशं क्षायिकत्वादुत्तम-श्रेष्ठं धर्मसन्यासं प्राप्य सत्संगादुत्पन्नः क्षायोपशमिकः क्षमादिधर्मोऽपि त्याज्योऽस्ति / अत्र क्षपकश्रेण्याम्-निवृत्तिवादरगुणस्थानके वर्तमानस्य योगिनः क्षायिकाप्राप्त्या क्षायोपशमिक-क्षमादिक धर्मस्यानिवृत्तौ सत्यां तात्त्विको धर्मसन्यासो भवति // 4 // all गुरुत्वं यस्य नोदेति, शिक्षासात्म्येन यावता / आत्मतत्त्वप्रकाशेन, तावत्सेव्यो गुरूत्तमः // 5 // व्याख्या-ग्रहणशिक्षाऽऽसेवनशिक्षयोः सम्यक्परिणतौ शुद्धात्मस्वरूपस्य संशयविपर्यासशून्यबोधेन स्वात्मनि यावद्गुरुत्वं न प्रकटं भवेत् तावदुत्तमो गुरुः ज्ञानक्रियोपदेशाचार्यः सेवनीयः, हे गरो! ते कृपया ममात्मनि यावद्गरुत्वं नागच्छेत् तावत् सूत्रोक्तविधिना मया त्वं सेवनीयोऽसि, इत्थं गरुः संकेतितव्यः॥५॥ // अथ त्यागष्टकेऽष्टमे सुभानुकुमारकथानकम् // 8 // भरतक्षेत्रे मगधदेशे सुवप्रापुरीशोऽरिदमनभूपः, धारिणी भार्या, तयोः पुत्रः सुभानुःकुमारः सुरवासरो यौवनं प्राप / ProGICHEHOOSEDICIDIOGGC // 46 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy