________________ इन्द्रिय जयाष्टकम् ज्ञानसारे मटर धःपातनपाघातादिभिरपि किश्चिद्विपकर्त्तमशक्ताभ्यां किनिहरे गत्वा रहोऽस्थीयत / अगुप्तेन्द्रियश्चापल्यादेकं पादं यावदुग्रीवां कर्षस्ताभ्यां खण्डशः कृतः / द्वितीयस्त्वचपलः सुचिरं तथैव स्थितः तावद्यावन्निवृत्तौ बहु स्थित्वा श्रान्ती गती। ततः स दिगवलोकं कृत्वोत्पत्य सद्यो हदे प्राप्तः सुखी जातः / पञ्चाङ्गगोकपकूर्मवत्पश्चेन्द्रियगोप्ता सुखी स्यात् चपलकूर्मवदगुप्तेन्द्रियो दुःखी स्यादिति च // 7 // // इति सप्तमे इन्द्रियजयपराजयाष्टके कूर्मद्वयदृष्टान्तः // 7 // वृद्धास्तृष्णाजलापूर्णे-रालवालेः किलेन्द्रियैः। मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः॥२॥ __व्याख्या-लालसारूपपानीयपूर्णैः इन्द्रियरूपैरालवालैः वृद्धिं गताः विकाररूपविषवृक्षा अतितीव्रां मूर्छा ददति // 2 // सरित्सहस्रदुष्पूर-समुद्रोदरसोदरः / तृप्तिमान्नेन्द्रियग्रामो, भवतृप्तोऽन्तरात्मना // 3 // ___व्याख्या-सहस्रसंख्यकाभिः नदोभिः पूरयितुमशक्यस्य समुद्रोदरस्य सदृशः इन्द्रियसमुहः न कदापि तृप्तिमासादयति, इत्थं विज्ञाय हे वत्स ! अन्तरात्मना सम्यक्षद्धानं कृत्वा तृप्तो भव // 3 // आत्मानं विषयैः पाशैर्भववासपराङ मुखम् / इन्द्रियाणि निबध्नन्ति, मोहराजस्य किङ्कराः॥४॥ ____ व्याख्या-मोहरूपस्य राज्ञः किङ्करा इन्द्रियाणि संसारवासविमुखमपि आत्मानं विषयरूपैः पाशैः भवबन्धनैः बघ्नन्ति, यतो हि मोहराजस्य महान्पुत्रो रागोऽस्ति तस्य विषयाभिलाषः प्रधानोऽस्ति, तस्य सन्ततिरिन्द्रियमस्ति // 4 // // अथ पुनः सप्तमे इन्द्रियजयपराजयाष्टके सुकुमारिकार्याकथानकम् // 7 // वसंतपुराद्राजसुतौ ससकभसकाभिधानी निष्क्रान्ती, पश्चाद् गीतार्थों जातौ / भगिनी सुकुमारिकां तौ प्रव्राजयामासतुः / Deodesaoudelacrowaisi // 41 //