SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ शानसारे इन्द्रियजयाष्टकम् TOOTEEMZENECEGENGEDE साम्राज्यम्-उपशमैश्वयं तस्य सम्पत्तयो जयन्ति // 8 // // इति षष्ठं शमाष्टकम् // // // अथ सप्तममिन्द्रियजयाष्टकम् // बिभेषि यदि संसारात्, मोक्षप्राप्तिं च काङ्क्षसि / तदेन्द्रियजयं कत्तु, स्फोरय स्फारपौरुषम् // 1 // व्याख्या-यदि त्वं संसाराद्भयं प्राप्नोषि मोक्षलाभ वाञ्छसि तहि इन्द्रियाणि विजेतुं स्फारं देदीप्यमानं पराक्रम विधेहि / अत्रेन्द्रियाणां वर्णादिज्ञानं भवति तस्मात् वर्णादिज्ञानमिन्द्रियाणां विषयरूपं नास्ति किन्तु ज्ञानाज्जातमनोज्ञामनोज्ञवर्णादिविषयेषु इष्टानिष्टत्वसत्त्वात् इष्टविषयेष्वाभिमुख्यमनिष्टविषयेषु वैमुख्यं मोहपरिणामो भवति स विषयोऽस्ति तस्मात् रागद्वेषतया प्रवर्तमानं ज्ञानमिन्द्रियाणां विषयरूपं भवति चारित्रमोहस्योदयात् अरन्तुं योग्ये परभवे यद्रमणं तदसंयमः, तत्र तत्र वर्णादिस्तु नेयमात्रमस्तीत्थं नास्ति किन्तु रम्पत्वात्तत्र रम्यमिति विषयग्राहकस्येन्द्रियद्वारा प्रवृत्तज्ञानस्येष्टानिष्टत्वपरिणमनं तज्जेतव्यम् अर्थादिष्टानिष्टत्वरूपेण परिणमतो ज्ञानस्य यदवरोधः स इन्द्रियजयो ज्ञातव्यः // 1 // ॥अथ सप्तमे इन्द्रियजयपराजयाष्टके ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मद्वयदृष्टान्तः // 7 // वाराणस्यां गङ्गायां मृदङ्गतीरे हृदे गुप्तेन्द्रियागुप्तेन्द्रियौ कूर्मों वसतः / तौ स्थलचरकीटकाद्यामिषार्थिनौ बहिनिर्गतौ दुष्टशृगालाभ्यां दृष्टौ, भीतौ चतुष्पदी प्रोवां च करोटिमध्ये संगोप्य निश्चेष्टौ निर्जीवावि व स्थितौ / जम्बूकाभ्यामसकृल्लोठनोत्पाटना // 40 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy