________________ मानसारे शमाष्टकम् ACUReacasuaraula व्याख्या-ध्यानरूपावृष्टेः वर्षणात दयारूपा याः नद्यः शमरूपपूरः यदा वर्धते. तदा विकाररूपाणां चित्तान्यथाभावानां तटवृक्षाणां मूलादेवोन्मूलनं जायते // 4 // ज्ञानं ध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो / तं नाप्नोति गुणं साधु-यं प्राप्नोति शमान्वितः // 5 // _ व्याख्या-ज्ञान-तत्त्वावबोधः, ध्यान-सजातीयपरिणामस्य धारा, तपः-इच्छानिरोधलक्षणं द्वादशविधम्, शील-ब्रह्मचर्यम्, सम्यक्त्वं-तत्त्वस्य श्रद्धानम्, एतैर्गुणैर्युक्तोऽपि मुनिः तं गुणं न प्राप्नोति यं गुणं शमगुणालङ्कृतः पुमान् प्राप्नोति // 5 // | स्वयम्भूरमणस्पर्द्धि-वर्धिष्णुसमतारसः / मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे // 6 // / व्याख्या-स्वयम्भूरमण- अर्थरज्जूप्रमाणान्त्यसमुद्रस्य स्पर्धाकारको वृद्धिशीलः समतारमः उपशमाख्यो रसः यस्यास्ति | एतादृशमुनेः येन सदृश्यं क्रियते तादृशः कोऽपि पदार्थः जगति नास्ति // 6 // शमसक्तसधासिक्त. येषां नक्तदिनं मनः / कदापि ते न दान्ते. रागोरगविषोर्मिभिः // 7 // व्याख्या-- शमस्य-उपशमरसस्य ज्ञापकसुभाषितामृतेन येषां मनः अन्तःकरणं रात्रिन्दिवं सिक्तमस्ति ते कदापि साधवो रागरूपस्य सर्वस्य हलाहलोमिभिर्न दह्यन्ते / .7 / / / गर्जज्ज्ञानगजोत्तुङ्ग-रङ्गध्यानतुरङ्गमाः। जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः // 8 // ब्याख्या - यत्र मुनौ गर्जेनां कुर्वन्तो ज्ञानरूपा गजा, रममाणाश्च ध्यानरूपा घोटकाः सन्ति तस्य मुनिराजस्य यत् शम | // 39 //