Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil

View full book text
Previous | Next

Page 63
________________ ज्ञानसारे त्यागाष्टकम DIERGETISCHSETZEBILETAS जनकेन रूपलावण्यकलावत्य एकशतकन्याः परिणायिताः / ताभिः सह विषयान् मुञ्जमानो भानुकुमारः सुखेन दिनानियिति / एकदा श्रीसंभवजिनागमनं वनपालमुखादशृणोत् / तथाहि सूत्रम् "अणेगेहि केवलिहि अणेगेहिं विउलमईहिं अणेगेहिं उज्जुमईहिं अणेगेहिं ओहिनाणीहिं अणेगेहिं पुव्वधरेहिं अणेगेहिं आयरिय उवज्झाएहिं तवोधणेहिं नवदिक्खिएहि अणेगेहिं देवदेवीहिं संपरिखुडो सिरिसंभवो अरिहा सव्वन्नू सव्वदंसी आगासएणं चक्केण" इत्यादि वर्ण्यम् / तदा शतस्त्रीपरिवृतः कुमारो महर्द्धया श्रीसेनामजं समवसरणस्थं प्रणम्य विनयेन तस्थौ / श्रीजिनेन धर्म उपदिष्टः-सर्वधर्मेषु मुख्यहेतुः परभावग्रहणत्याग एव ज्ञेयः / तत्र स्वद्रव्यस्वक्षेत्रस्वकालस्वभावत्वेन स्यादस्तोति प्रथमभङ्गगृहीतात्मपरिणामः स्वात्मनि वर्तमानः स्वधर्मः, तस्य समवायत्वेनाभेदात् न त्यागः, अनादिमिथ्यादृष्टित्वकुदेवादिरक्तत्वाद्यप्रशस्तवस्तुग्रहणस्य त्यागो मतः / तत्र नामतः त्यागः शब्दालापरूपः, स्थापनात्यागो-दर्शनयतिधर्मपूजनादौ स्थाप्यमानः, द्रव्यत्यागो-बाह्यवृत्त्या इन्द्रियाभिलाषाहारोपधिप्रमुखाणां त्यागः, भावतोऽभ्यन्तररागद्वेषमिथ्यात्वाद्याश्रवपरिणतित्यागः, नामस्थापनां यावत् नैगमसंग्रहौ, व्यवहारः-विषगरलानुष्ठानेन, ऋजुसूत्रेण (त्रः )-कटुविपाकभीत्या, शब्दसमभिरूढौ-तद्धतुतया, एवम्भूतस्त्यागः सर्वथा वर्जनं वर्जना यत्नेन / " इत्याद्यनेकयुक्तिगर्मितमुपदेशं श्रुत्वा भानुकुमारस्तीर्थकरचरणावभिवन्द्य चारित्रमोहक्षयोपशमेन जातविरतिमतिर्भणतिस्म--"हे नाथ ! अशरणशरणमहासार्थवाह ! भवसमुद्रनिर्यामक! मम सर्वविरतिसामायिकमुपदिश, येन विषयकषायत्यागो वर्धते।" एवं निशम्यार्हता सामायिकचारित्रं दत्तम् / गृहीतव्रतः श्रमणो जातः / तदेवायुःक्षयो जातः / स कुमारो मृतः / तत्र तजनकः सपरिकर आगतः सुतं, मृतं वीक्ष्य विषण्णोऽभूत् / जननी विलापं वितन्वतो क्रन्दन्ती रुदनं चकार / तदा झटित्येव देवत्वं लब्ध्वा समागास जिनाभ्यणे / तौ पितरौ विलपन्तौ दृष्ट्वा भणति-"किमेतादृशं दुःखं ? यजिनचरणौ परमसुखदायको लब्ध्वा रुदनं कुरुथः ?" / तावूचतु:-''अस्मत्सुत. परमवल्लभो विपन्नः, तस्य वियोगो जातः, तदुःखं दुःसहम् / " सुरः प्राह-“हे नृप ! शृणु, तस्य शरीरं तवेष्टं तदा एतत्तत्पतितकलेवरे DESSEZETBEDEUSESSENEKSI // 47 //

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184