Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil
View full book text
________________ ज्ञानसारे KANDEDESSEWIVENEDIG आयरिओ समणसंघ भणइ “भो भो निरगंथा ! अज्ज एयम्मि णयरे मोहधाडी निवडिया, तेण एए कहति लोगा उच्छलंति IAN तत्वदृष्टयभओविगत्ता अप्पाणं न जुज्जइ इत्थ पवेसो, लोहपासबद्धा लोगा अणुकंपणिज्जा, मोहसुरामत्ता नो उवएसजुत्ता, अम्गे निम्गच्छह / " ता साहवो भणंति-"चारु कहियं" इच्चाइसुहजोगपरा विहरइ / ते णं आयसुहदिट्ठियाणं गामनगराइ वेरग्गकारणं हवइ / इत्यन्धयदृष्टान्तमुक्त्वा व्यतिरेकसम्बन्धमाह- . कस्मिंश्चिद्गच्छे गुरुभिः स्वायुःपर्यन्तमवगम्य कश्चिच्छिष्यः स्थूलसामाचारीज्ञः सूरिपदे स्थापितः / ततः प्राप्तप्रतिष्ठः स आगमादिशास्त्राध्ययने प्रमाद्यमूत् / ततोऽनधिगतश्रुतार्थोऽपि गुरुमहिम्ना सर्वत्र ख्याति प्राप्तवान् / अन्यदा विहरन् पृथ्वीतिलकपुरे प्राप / श्राद्धैः प्रौढप्रवेशेन महोत्सवो व्यधीयत तथा यथा तस्य भृशं महिमाप्रसिद्धिरभूत् शासनोन्नतिश्च / तत्र पुरे प्राग्जैनाचार्यः परवादिनो नृपसभायामनेकशः पराभूताः, ते च तदानीं पुनस्तस्याचार्यस्य तथाविधामुन्नति वीक्ष्य ईर्ष्यालवः प्राग जितत्वेन पुनः स्वमहत्त्वक्षतिभीरवस्तस्य शास्त्रपरिज्ञानपरीक्षां चिकीर्षवः स्ववर्गीयमेवैक श्राद्धं तस्य पार्श्व प्रेषुः / स च विधिवद्गुरु सेवमानोऽन्यदाऽप्राक्षीत-"भगवन् ! पुद्गलस्य कतीन्द्रियाणि ?" इति ततः स सूरिस्तत्त्वदृष्टिविकलश्चिरं विमृश्य प्राक् क्वचित् श्रुतं पुद्गलः समयेन लोकान्तं यावद्यातीत्यस्मार्षीत , ततश्च पश्चेन्द्रियं विना कथमेतावती शक्तिः? इति स्वहदि निर्धाय तं स्माह-"भद्र ! पुद्गलः पञ्चेन्द्रियः” इति / ततः स्वसमयेऽप्येतस्य परिज्ञानं नास्ति परसमयादिपरिज्ञानं पुनः क्वेत्येवं विचार्य लब्धतज्ज्ञानपारेस्तैर्वादिभिर्नृपसभायां पराजितः, बहूनां धर्महानिश्च जाता। संघेन स दूरतरं विहारितः / एवंविधास्तत्त्वविकला प्रामारामोपाश्रयश्राद्धसंद्यादिषु मग्ना उपदेशपरा अपि तादृग्ज्ञानविकलस्वादुत्सूत्रपि प्ररूपयन्ति / इति स्वाश्रितान् भवाब्धौ प्रत्युत मजयन्ति / यतः जं जयइ अगीयत्थो, जंच अगीयत्यनिस्सिओ होइ / बट्टावेइ य गच्छं, अणंतसंसारिओ होई // 1 // तत्त्वदृष्टिविकलस्याबहुश्रुतस्य धर्मदेशनां कर्तुं न कल्पते इति / / // 9 // Calcuacaalactac

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184