Book Title: Gyansarashtakam
Author(s): Yashovijay
Publisher: Vadilal Mohakambhai Vakil

View full book text
Previous | Next

Page 128
________________ सानसारे का लोकसंज्ञात्यागाष्टकम् ZASTIEDOT मिणः, तेनात्र प्रासादे समेताः स्मः" / अहो ! प्राणातिपातमृषावादादत्तादानपरदारगमनद्यूतादिसप्तव्यसनाधशेषदोषखनयः सर्वेऽप्यमी धर्मवन्तः एवं समीचीनमजनि वचनमभयस्य मन्त्रिण" इति मत्वा राजा श्यामासादे प्राप्तः / तत्र मातुलभागिनेयौ दृष्टौ पृष्टौ च"कथं युवामत्र चैत्ये प्राप्तौ ?" "हे स्वामिन् ! आवाभ्यां पुरा श्रीसुधर्मस्वामिनोऽभ्यणे सुराया मांसस्य चेति पृथक् नियमावङ्गीकृती, तत आवयोनियमभङ्गोऽभूत् . तेनावां महापापिनौ, यतो व्रतलोपी महापापो अतः कारणादावामिह प्रासादे प्रविष्टौ / " . अथवा कथान्तरे इत्थमपि श्रुतं-येन सुदर्शनश्रेष्टिना राजगृहजनेषु अर्जुनमालिकृतोपसर्गनिवारणं कृतं स श्रेष्ठी भार्यया सह मनसि विचार्य श्यामचैत्य एव प्रविष्टः, तद्वीक्ष्य श्रेणिकोऽभयं प्राह-"आबालगोपालप्रसिद्धधर्मकारकः यः, त्रिभुवनेऽपि यस्य धर्मकीर्तिः, स कथं पापप्रासादे प्रविशति ?" "स्वामिन् ! युष्माभिस्तत्र गत्वा पृच्छयते तदा संशयनिवृत्तिभवेत् / तदा नृपः सपरिकरस्तत्र गत्वा सुखासनादुत्तीर्य श्रेष्टिनं पप्रच्छ-"यूयं महाधर्मिणोऽत्र श्यामप्रासादे कथं प्रविष्टाः ?" स प्राह-"स्वामिन् ! श्रीवीरस्वामिप्रदर्शितश्रावकधर्ममप्यहं यथास्थितं न पालयामि प्रत्यहं षटकायजीवहिंसकत्वेन, अतोऽहं कथं धर्मी ?" इति लोकसंज्ञागरिकप्रवाहत्यागेन ये धर्मरसिकाः श्राद्धाः श्रीशलेयवाक्यतन्मयास्त एव धर्मिणः, परं च संपूर्णधर्मरसिकास्तु मुनय एव, यतःलोकसंज्ञाहता हन्त, नीचैर्गमनदर्शनैः / शंसयन्ति स्वसत्याङ्ग-मर्मघातमहाव्यथाम् // 6 // व्याख्या-ध्रुवमेतदस्ति यद् लोकसंज्ञया ताडिता जीवाः शनैर्गन्तव्यं नीचैर्गन्तव्यमित्यादिप्रवृत्तिभिः निजसत्यव्रतरूपाले प्रवृत्तमर्मप्रहारस्य महती वेदनां निवेदयन्ति // 6 // मुनिः षष्ठं गुणस्थानं सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः पुनर्लोकः कृतं तत्कर्त्तव्यं गतानुगतिकनीतिः तत्र रतो रागी गृहीतप्रहो न स्यात् / किंभूतं गुणस्थानं ? भवः संसारः एव दुर्गाद्रिविषमपर्वतस्तस्य लङ्घनम् / किंविशिष्टो मुनिः ? लोकोत्तरमर्यादया स्थितः, लोको हि विषयोत्सुकः मुनिस्तु निष्कामः, लोकः पुगलसम्पच्छ्रेष्ठत्वमानी मुनिः पुनज्ञानादिसम्पदा श्रेष्ठः, अतः किं लोकसंज्ञया तेषाम् ? आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया। तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शने // 7 // Garodaiwale // 112 //

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184