SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सानसारे का लोकसंज्ञात्यागाष्टकम् ZASTIEDOT मिणः, तेनात्र प्रासादे समेताः स्मः" / अहो ! प्राणातिपातमृषावादादत्तादानपरदारगमनद्यूतादिसप्तव्यसनाधशेषदोषखनयः सर्वेऽप्यमी धर्मवन्तः एवं समीचीनमजनि वचनमभयस्य मन्त्रिण" इति मत्वा राजा श्यामासादे प्राप्तः / तत्र मातुलभागिनेयौ दृष्टौ पृष्टौ च"कथं युवामत्र चैत्ये प्राप्तौ ?" "हे स्वामिन् ! आवाभ्यां पुरा श्रीसुधर्मस्वामिनोऽभ्यणे सुराया मांसस्य चेति पृथक् नियमावङ्गीकृती, तत आवयोनियमभङ्गोऽभूत् . तेनावां महापापिनौ, यतो व्रतलोपी महापापो अतः कारणादावामिह प्रासादे प्रविष्टौ / " . अथवा कथान्तरे इत्थमपि श्रुतं-येन सुदर्शनश्रेष्टिना राजगृहजनेषु अर्जुनमालिकृतोपसर्गनिवारणं कृतं स श्रेष्ठी भार्यया सह मनसि विचार्य श्यामचैत्य एव प्रविष्टः, तद्वीक्ष्य श्रेणिकोऽभयं प्राह-"आबालगोपालप्रसिद्धधर्मकारकः यः, त्रिभुवनेऽपि यस्य धर्मकीर्तिः, स कथं पापप्रासादे प्रविशति ?" "स्वामिन् ! युष्माभिस्तत्र गत्वा पृच्छयते तदा संशयनिवृत्तिभवेत् / तदा नृपः सपरिकरस्तत्र गत्वा सुखासनादुत्तीर्य श्रेष्टिनं पप्रच्छ-"यूयं महाधर्मिणोऽत्र श्यामप्रासादे कथं प्रविष्टाः ?" स प्राह-"स्वामिन् ! श्रीवीरस्वामिप्रदर्शितश्रावकधर्ममप्यहं यथास्थितं न पालयामि प्रत्यहं षटकायजीवहिंसकत्वेन, अतोऽहं कथं धर्मी ?" इति लोकसंज्ञागरिकप्रवाहत्यागेन ये धर्मरसिकाः श्राद्धाः श्रीशलेयवाक्यतन्मयास्त एव धर्मिणः, परं च संपूर्णधर्मरसिकास्तु मुनय एव, यतःलोकसंज्ञाहता हन्त, नीचैर्गमनदर्शनैः / शंसयन्ति स्वसत्याङ्ग-मर्मघातमहाव्यथाम् // 6 // व्याख्या-ध्रुवमेतदस्ति यद् लोकसंज्ञया ताडिता जीवाः शनैर्गन्तव्यं नीचैर्गन्तव्यमित्यादिप्रवृत्तिभिः निजसत्यव्रतरूपाले प्रवृत्तमर्मप्रहारस्य महती वेदनां निवेदयन्ति // 6 // मुनिः षष्ठं गुणस्थानं सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः पुनर्लोकः कृतं तत्कर्त्तव्यं गतानुगतिकनीतिः तत्र रतो रागी गृहीतप्रहो न स्यात् / किंभूतं गुणस्थानं ? भवः संसारः एव दुर्गाद्रिविषमपर्वतस्तस्य लङ्घनम् / किंविशिष्टो मुनिः ? लोकोत्तरमर्यादया स्थितः, लोको हि विषयोत्सुकः मुनिस्तु निष्कामः, लोकः पुगलसम्पच्छ्रेष्ठत्वमानी मुनिः पुनज्ञानादिसम्पदा श्रेष्ठः, अतः किं लोकसंज्ञया तेषाम् ? आत्मसाक्षिकसद्धर्म-सिद्धौ किं लोकयात्रया। तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शने // 7 // Garodaiwale // 112 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy