________________ ज्ञानसारे स्यागाष्टकम् COQUENOSSENSEIZOTONG व्याख्या - यदि लोकमनुसृत्य बहुभिर्जनैरेव कृतं करणीयं स्यात्तदा मिथ्यादृष्टीनां धर्मः कदापि त्याज्यो न स्यात् // 4 // || लोकसंझाश्रेयोर्थिनोहि भूयांसो,लोके लोकोत्तरे न च। स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः॥५॥ व्याख्या-मोक्षस्यार्थिनः खलु लोकमार्गे लोकोत्तरमार्गे वा बहवः न सन्ति यतो हि मणेापारिणोऽन्पशः सन्ति तथा स्वात्मनोऽर्थस्य साधका अल्पा एव सन्ति // 5 // अथ त्रयोविंशे लोकसंज्ञात्यागाष्टके श्वेतश्यामप्रासादकथानकम् // 23 // सर्वत्राप्यधिगम्पन्ते, पापिनो नेतरे जनाः / भूयांसो वायसाः सन्ति, स्तोका यच्चापपक्षिणः // 1 // श्रेष्टिसेनापतिसार्थवाहदूतदोवारिकराजयुवराजामात्यमहामात्यकिङ्करप्रभृतिसकललोकसनाथायां श्रीश्रेणिकराजपर्षदि धर्मिणः पापिनो वा नगरे बहव इत्येकदा धर्माधर्मविवादे जायमाने सर्वैरपि सभासद्भिः पापिनो बहवो धर्मिणश्च स्वल्पा इत्यभिहिते सनिबन्ध राज्ञा पृष्टोऽभयो मन्त्री भणति स्म-“हे देव ! बहवो धर्मिणः पापिनश्वाल्पीयांसः" कथमेतदिति गाढमाग्रहेण भणितो मन्त्री श्वेतं श्याम चेति चत्यद्वयं पुरादहिरचोकरत् / ततो धर्मवद्भिर्धवले प्रासादे पापवद्भिश्च श्यामले प्रासादे समागन्तव्यमिति पटहोद्घोषणां सकलेऽपि पुरे विकचत्वरराजमार्गमहापथादिषु अभयो मन्त्री कारयति स्म / __अथ स्वस्वसम्पदनुसारेण विहितवेषा अपि पौरा धवलप्रासादमुपेयिवांसः, द्वौ मातुलभागिनेयौ तु श्यामलं प्रासादं समेतौ। अथ स्वपरिवारपरिवृतोऽभयेन मन्त्रिणाऽनुगम्यमानो राजा तत्र प्रासादपार्श्व प्राप्तः सकलमपि पौरवर्ग धवलप्रासादे वीक्ष्याभाषिष्ट"भो पौरा: ! कथं सर्वेऽपि यूयं श्वेतचैत्ये प्रविष्टाः अथ तेऽभ्यधुः-“हे राजेन्द्र ! स्वस्वकुलक्रमागताचारकरणेन वयं सम्यग्ध acGEIGEEIJIORCHIC GE // 11 //