________________ ज्ञानसारे | लोकसंज्ञा| त्यागाष्टकम् Kateracroecoraemora व्याख्या - आत्मनः साक्षितया सद्धर्मस्य सिद्धत्वे सति लोकव्यवहारस्य किं प्रयोजनं-लोकज्ञापनया कितत्र प्रसन्नचन्द्रो | राजर्षिः भरतराजर्षिश्च दृष्टान्तमस्ति / प्रसन्नचन्द्रस्य दृश्यबाह्यचारित्रसत्त्वेऽपि नरकगतियोग्यकर्मबन्धोऽभूत् / भरतमहाराजस्य दृश्यबायचारित्राद्विनाऽपि केवलज्ञानमभूत् // 7 // “लोकसंज्ञात्यागेन स्वरूपोपयोगभोगसुखमग्ना निर्ग्रन्था औदयि कमिन्द्रियसुखं दह्यमानस्वगृहप्रकाशवन्मन्यन्ते न सुखमस्तो"त्यादिकं सद्धर्मकृत्स्वरूपं सुदर्शनमुखादवगम्य गतसंशयः श्रेष्ठिनं प्रणम्य पौरसमक्षं महामहस्वं दस्वाऽवोचव-"अहो! मदीयपुरं श्रेष्ठ यत्र युष्मादृशाः पुण्यपवित्राः धर्मिणः सन्ति / " इति स्तुत्वा स्वराजमन्दिरेऽगाव / पौरा अपि सुदर्शनधर्म प्रशंसन्तः स्वस्थानं प्रापुः इति / / लोकप्रवाहं प्रविहाय तत्त्ववित्, मौनीन्द्रमार्गानुभवाभिनन्दकृत् / लब्ध्वा प्रतिष्टां जनतास्वगोचरां,शुद्धात्मधर्म विननोति सन्मति॥१॥ // इति त्रयोविंशे लोकसंज्ञात्यागाष्टके श्वेतश्यामप्रासादकथानकम् // 23 // लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् / सुखमास्ते गतद्रोह-ममतामत्सरज्वरः // 8 // व्याख्या-लोकसंज्ञया विरहितः परब्रह्मणि लीनतारूपसमाधिमान् तथा अपगता द्रोहममतामत्सररूपाः ज्वराः यस्यैतादशः साधुः सुखमास्ते // 8 // // इति त्रयोविंशतितमं लोकसंज्ञात्यागाष्टकम् // AADHIDOACTISAC // 113 //