________________ ज्ञानसारे ||शालाटकम् DEBBIETTITISAN TODOS // अथ चतुर्विंशतितमं शास्त्राष्टकम् // चर्मचक्षुर्भूतः सर्वे, देवाश्चावधिचक्षुषः / सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः // 1 // सर्वे प्राणिनश्चर्मचक्षुधराः सन्ति, देवाश्चावधिज्ञानचक्षुष्काः सन्ति, सिद्धा भगवन्तः सर्वतः केवलोपयोगचक्षुष्का: सन्ति, | साधवस्तु शास्त्रचक्षुषः सन्ति / समयसारे कथितं यत् आगमचक्खू साहू, चम्मचक्खूणि सव्वभूयाणि / देवा य ओहिचक्खू, सिद्धा पुण सव्वदो चक्खू // 1 // आगमचक्षुषः साधवः सन्ति, सर्वाणि भूतानि चर्मचक्षुष्कानि सन्ति, देवा अवधिज्ञानचक्षुषः सन्तिः, सिद्धाः सर्वतश्चक्षुष्काः सन्ति // 1 // // अथ चतुर्विशे शास्त्राष्टके आर्यरक्षितसूरिकथानकम् // 24 // दशपुरे सोमदेवो द्विजः, तस्य भार्या सोमा परमाहती, तयोरार्यरक्षितो ज्येष्ठः पुत्रः, द्वितीयः फाल्गुरक्षितश्चासीत् / ज्येष्ठः साङ्गोपाङ्गवेदादिशास्त्राण्यधीत्य पाटलीपुयां ततः स्वपुरे प्रविशन् राज्ञा गजस्कन्धेऽध्यारोप्य गृहे स्थापितः सन्मानितश्च / अथ गृहाभ्यन्तरे जननी नन्तुं नृपदत्तसन्मानावृतो जगाम / 'हे पुत्र! तव स्वागतं वर्चते' इत्युक्त्वा मौनमाश्रिता / उदासीनां मातरं वीक्ष्यावोचद"मातः ! मां किं न भाषसे ? सर्वजनपूज्यं सर्वशास्त्रतत्त्वज्ञं मां दृष्ट्वा किं न मोदसे ?" अथेदं रुद्रसोमाऽऽख्यत्, किमेमिः स्वान्यनाशकैः / हिंसोपदेशकैः शास्त्र-रधीतर्नरकप्रदः // 1 // एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे / पतिप्यन्तं प्रपश्यन्स्याः , स्यादानन्दः कथं मम // 2 // DICIRCONCacaIONapelaela // 114 //