SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे शाखाष्टकम् Gracielsewood यदा दृष्टिवादं पठसि स्वं तदा मदारमा दृष्ट: स्यात् / विनीतः पुत्रः स्वाम्बो स्माह-"तच्छास्त्रं क्व पठ्यते / " साऽऽह"तोसलिपुत्रगुर्वन्तिके" प्रभातेऽम्बामापृच्छय तमध्येतुं चचाल / इतश्च तपितुः मित्रं द्विज आर्यरक्षितमिलनाय सार्धा नवेक्षुयष्टीगदायागात् / स द्विजः प्रेम्णा समालिकग्य तं प्राह-"त्वनिमित्तं मयाऽऽनीता इक्षुलता इमा गृहाण / " सोऽवादीव-"इक्षुसन्दोहो मन्मातुर्दीयताम्, अहं तु कार्ये गच्छामि / " तेन द्विजेन ता इक्षुयष्टीस्तदम्बाय दत्त्वा तद्वृत्तं कथितम् / तदा जनन्या ध्यातं"नूनमनेन शकुनेन सूचितं यदसौ साधिकनवपूर्वाणि पठिष्यति / " _ अथार्यरक्षितः स्वयं गुरुवन्दनक्रियामजानन ढड्डरश्राद्धेन सह ययौ, श्राद्धानुरूपविधिना गुरुं प्रणम्य स्थितः। तदा भादो गुरु प्रति द्विजजातिकुलादिकं प्राह चतुर्दशानां सद्विद्या,-स्थानानामेष पारगः / प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि // 1 // आर्यरक्षितो गुरु स्माह अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् / तत्तदध्यापनेनोचैः, प्रसादः क्रियतां मयि // 2 // तच्छ्रुत्वा मूरयोऽप्यूचुः, यद्येवं तत्परिव्रज / क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् // 3 // ततो दीक्षामङ्गोकृत्य स्माह इह स्थितं हि मां राजा, स्वजनाः पूर्जनस्तथा / दीक्षातः पातयिष्यन्ति, प्रसद्याप्यनुरागतः // 1 // तच्छ्रुत्वा ते सगच्छास्तं लात्वाऽन्यत्र ययुः / इदं शिष्यचौर्यमाद्यं श्रीवीरशासनेऽभूव / ततस्तोसलिपुत्रपार्वे यावन्मित दृष्टिवादमभूत्तावन्मितं सर्व जमाह / ततः श्रीवज्रस्वाम्यन्तिके पठनायाचलत् / मार्गप्रामे श्रीभद्रगुप्तसूरीशंस ननाम। तं सर्वगुणाढ्यं वीक्ष्योपलक्ष्य सूरीशा आलिलिङ्गः, प्रमोदाच्चैवमूचिरे acacaClocacaosacoclae // 115 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy