Book Title: Gnatadharmkathangasutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 7
________________ पथानां दृष्टमा दन्तादिदर्शनात सात चतुष्कं रथ्याना परिमण्डिता निव्वुयसुहातः सुखैच त्रिकं यत्र रथ्याकविधद्रव्याणि भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता| विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येणशिल्पिना रचितो दृढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइपणनिव्वुयसुहा' विपणीनां-वणिपथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं-स्थानं या सा तथा शिल्पिभिः कुम्भकारादिभिराकीर्णा सुनितैः सुखैश्च-सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं-रथ्याचतुष्कमीलकः चखरं-बहुरथ्यापातस्थान पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तः महीपतिपथो-राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीर्गा-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, "अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपयर'त्ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा-व्याता यानयुग्यैश्च या सा तथा, तत्र शिविका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिकाःपुरुषप्रमाणजम्पानविशेषाः यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, विमउलनवनलिणिसोभियजला विमुकुलाभिः-विकसितकमलाभिर्नवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणसन्निमहिया' पाण्डुरैः-सुधाधवलैर्वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 510