Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
घनो-निबिडो विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते तथा 'अच्छि दपत्ता' नीरन्ध्रपर्णा 'अविरलपत्ता' निरन्तरदलाः 'अवाईणपत्ता' अबाचीनपत्राः-अधोमुखपलाशाः अवातीनपत्रा वा-अबातोपहतबर्दाः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निद्धयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्राः, 'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन 'भिसन्त'त्ति दीप्यमानेन पत्रभारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा 'उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंत किसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलद्भिः किशलयः-पत्रविशेषैस्तथा सुकुमालप्रवालैः शोभितानि वरावराण्यग्रशिखराणि येषां ते तथा, इह चाङ्कुरप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकाल कृतावस्थाविशेषाद् विशेषः संभाव्यत इति, 'निचं कुसुमिया निचं माइया' मयूरिताः 'निचं लवइया' पल्लविता: 'निचं थवइया' स्तबकवन्तः 'निच्चं गुल्लइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपि स्तबकगुच्छ योरविशेषो नामकोशेऽधीतस्तथापीह विशेषो भावनीयः, 'निचं जमलिया' यमलतया समश्रेणितया व्यवस्थिताः, 'निच्चं जुयलिया' युगलतया स्थिताः 'निच्चं विणमिया' विशेषेण फलपुष्पभारेण नताः, 'निचं पणमिया' तथैव नन्तुमारब्धाः, 'निच्चं कुसुमियमाझ्यलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिडिमंजरिवडेंसगधरा' केचित् कुसुमितायेकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ता-विविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्व्यः मञ्जर्यश्च प्रतीतास्ता एवावतंसकाः-शेखरकास्तान् धारयन्ति ये ते तथा, 'सुपवरहिणमयणसालकोइलकोभंडकभिंगारककोमलक
Jain Educ
a
tional
For Personal & Private Use Only
a
ajainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 510